________________
श्रीलघुभाव्याकरणम्.
वाऽऽप्नोः ॥ ४ । ३ । ८७ ॥
णेर्यप्यय् । प्रापय्य । प्राप्य । आनोरिति किम् ? । अध्याप्य । क्षेः क्षीः ॥ ४ । ३ । ८९ ॥
( २७० )
यपि । प्रक्षीय ।।
ख्णम् चाभीक्ष्ये ॥ ५ । ४ । ४८ ॥ परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे धातोः सम्बन्धे त्वा ॥ भोजं भोजं याति । भुक्त्वा भुक्त्वा याति ।
वाऽपगुरो णमि । ४ । २ । ५॥ संध्यक्षरस्यात् । अपगारमपगारम् । अपगोरमपगोरम् ॥ पूर्वाग्रेप्रथमे ।। ५ । ४ । ४९॥
उपपदे परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे धातोः सम्बन्धे ख्णम् वा । अनाभीक्षण्यार्थे वचनम् । पूर्वभोजं याति, पूर्व भुक्त्वा । अग्रेभोजम् । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । अन्यथैवंकथमित्थमः कृगोऽनर्थकात् ॥ ५ । ४ । ५० ॥
तुल्यकर्तृकेऽर्थे ख्णम् वा । अन्यथाकारम् एवङ्कारम्, कथङ्कारम् इत्थङ्कारं भुङ्क्ते । पक्षे सवैव । अनर्थकादिति किम ! अन्यथा कृत्वा शिरो भुङ्क्ते ।
यथातथादीर्योत्तरे ॥ ५ । ४ । ५१ ॥
तुल्यकर्तृकार्थानर्थकात्कृगो धातोः सम्बन्धे ख्णम् वा । कथं त्वं भोक्ष्स इति पृष्टोऽसूयया तम्प्रत्याह, यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन । ईष्र्योत्तर इति किम् ? । यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि ॥