________________
उत्तरकृदनकरणम्.
१३६५)
अनट् ॥ भोजनम् । निरदनम् । प्रपतनः । अपादानम् ॥
करणाधारे ॥ ५।३। १२९ ॥ अनट् । एषणी । सक्तुधानी ॥
पुन्नानि घः । ५।३ । १३०॥ गम्ये करणाधारयोः ॥
एकोपसर्गस्य च घे ॥ ४।२। ३४ ॥
अनुपसर्गस्य छदेणौं इस्वः। दन्तच्छदः। प्रच्छदः। आकरः। पुमिति किम् ? । विचयनी । नान्नीति किम् ? । प्रहरणो दण्डः ॥
गोचरसंचरवहब्रजव्यजखलापर्णानगमबकभगकषाकषनिकषम् ॥ ५। ३ । १३१ ॥ . करणाधारयोः पुनाम्नि घान्तं निपात्यते ॥ गोचरः। सश्चरः । वहः । व्रजः । व्यजः । खलः । आपणः । निगमः । बकः । भगः। . बाहुलकाद् भगम् । कषः । आकषः । निकषः ॥
व्यञ्जनाद् घञ् ॥ ५। ३ । १३२ ॥ धातोः पुनाम्नि करणाधारयोः । वेदः।
अवात्तस्तृभ्याम् ॥ ५। ३। १३३ ॥ करणाधारयोः पुनाम्नि घञ् ॥ अवतारः । अवस्तारः॥
न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् ॥ ५।३। १३४॥
पुन्नाम्नि करणाधारयोर्घअन्तं निपात्यते ॥ न्यायः । अवायः । अध्यायः । उद्यावः । संहारः। अबहारः। आधारः। दाराः। जारः।। ... उदकोऽतोये ॥ ५। ३१ १३५ ॥