SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीलघुहेमप्रभाव्याकरणम्. नाम्नि पुंसि च ॥ ५ । ३ । १२१ ।। धातोः परो भावाकर्त्रीः स्त्रियां णकः ॥ प्रच्छर्दिका । शालभञ्जिका । अरोचकः ॥ ( २६४ ) भावे ॥ ५ । ३ । १२२ ॥ धात्वर्थनिर्देशे स्त्रियां धातोर्णकः ॥ शायिका ॥ क्लीवे क्तः ॥ ५ । ३ । १२३ ॥ भावे धातोः ॥ हसितं छात्रस्य । क्लीव इति किम् ? | हसः । हासः ॥ अनट् ॥ ५ । ३ । १२४ ॥ लोवे भावे धातोः ॥ गमनम् ॥ ष्ठिवसिवोऽनटि वा ।। ४ । २ । ११२ ॥ दीर्घः ॥ निष्ठीवनम् | निष्ठेवनम् । सीवनम् | सेवनम् ॥ यत्कर्मस्पर्शात्कर्त्रङ्गसुखं ततः ॥ ५ । ३ १२५ ॥ धातोः क्लीवे भावेऽनट् ॥ पयःपानं सुखम् । कर्मेति किम् ? तूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् ? | अग्निकुण्डस्योपासनं सुखम् । कत्रिति किम् ? । शिष्येण गुरोः स्नापनं सुखम् । अङ्गेति किम् ? । पुत्रस्य परिष्वञ्जनं सुखम् । सुखमिति किम् ? | कण्टकानां मर्दनम् । नित्यसमासार्थमिदम् ॥ रम्यादिभ्यः कर्त्तरि ॥ ५ । ३ । १२६ ॥ अनट् । रमणी । कमनी । कारणम् ॥ ५ । ३ । १२७ ॥ कृगः कर्त्तर्यनट् वृद्धिश्च ॥। कारणम् ॥ भुजिपत्यादिभ्यः कर्मापादाने ॥ ५ । ३ । १२८ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy