________________
उत्तरकृदन्तप्रकरणम्.
(२५५)
ह्वोऽल् वा उश्च ।। हवः । भाव इति किम् ? | व्याप्ये ह्रायः । अनुपसर्गादिति किम् ? । आह्वायः ।
हनो वा वधू च ॥ ५ । ३ । ४६ ॥
अनुपसर्गाद् भावेऽल् || वधः । घातः ॥
व्यधजपमद्भथः ॥ ५ । ३ । ४७ ॥ अनुपसर्गेभ्यो भावाकर्त्रीरल् ॥ व्यधः । जपः । मदः ॥
नवा क्वणय महसस्वनः ॥ ५ । ३ । ४८ ॥ अनुपसर्गाद् भावाकरल् ॥ कणः । क्काणः । यमः । यामः । हसः । हासः । स्वनः । स्वानः ॥
आङो रुप्लोः ॥ ५ । ३ । ४९ ॥
भावाकरलू वा ॥ आरवः । आरावः । आप्लवः । आप्लावः ।। वर्षविघ्नेऽवाद् ग्रहः ॥ ५ । ३ । ५० ॥
भावाकर वा ॥ अवग्रहः । अवग्राहः । वर्षविघ्न इति किम् ? | अवग्रहोsर्थस्य ||
प्राद्रश्मितुलासूत्रे ॥ ५ । ३ । ५१ ॥
ग्रहेर्भावाकत्रोरल् वा ॥ प्रग्रहः । प्रग्राहः ॥
वृगो वस्त्रे ॥ ५ । ३ । ५२ ॥ प्राद्भावाकरलू वा ॥ प्रवरः । प्रावारः । वस्त्र इति किम् ? | प्रवरो यतिः ॥
उदः श्रेः ॥ ५ । ३ । ५३ ॥
भावाकरलू वा ।। उच्छ्रयः । उच्छ्रायः ॥ युपुद्रोर्घञ् ॥ ५ । ३ । ५४ ॥