________________
उत्तरकृदन्तप्रकरणम्.
(२५३)
किम् ? । उपसारो भृत्यै राज्ञाम् ॥
पणेाने ॥ ५। ३। ३२॥ भावाकारल् ॥ मूलकपणः । मान इति किम् ? । पाणः ॥
सम्मदप्रमदौ हर्षे ॥ ५।३। ३३ ॥ भावाकोरलन्तौ स्याताम् ॥ सम्मदः प्रमदो वा स्त्रीणाम् । हर्ष इति किम ? । सम्मादः॥
हनोन्तघनान्तर्घणौ देशे ॥ ५। ३ । ३४॥ निपात्येते ॥ अन्तर्घनः, अन्तर्षणो वा देशः । अन्तर्घातोऽन्यः ॥
प्रघणप्रघाणौ गृहांशे ॥ ५। ३ । ३५ ॥ निपात्येते ॥ प्रघणः, प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः ॥
निघोद्घसङ्घोद्घनापधनोपन्नं निमितप्रशस्तगणात्याधानाङ्गासन्नम् ॥ ५। ३ । ३६ ॥
हन्तेः कृतघत्वावलन्तं निपात्यते ॥ समन्ततो मितं निमितम् । निघा वृक्षाः । उद्घः प्रशस्तः। सङ्घः प्राणिसमूहः । अत्याधीयन्ते छेदनाथ कुटनार्थ वा काष्ठादीनि यत्र तदत्याधानम् । उद्घनः। अपघनः शरीरावयवः । उपन्न आसन्नः ॥
मूर्तिनिचिताभ्रे घनः ॥ ५।३। ३७ ॥ हन्तेनिपात्यते ॥ मूर्तिः काठिन्यम् । अभ्रस्य घनः । निचितं निरन्तरम् । घनाः केशाः । अभ्रं मेघः । घनः ।।
व्ययोद्रोः करणे ॥ ५।३।३८॥ हन्तेरल घनादेशश्च ॥ विघनः । अयोधनः । द्रुधनः ॥
स्तम्बाद्नश्च ॥ ५।३। ३९ ॥