________________
अनसो वहेः क्विप् सश्च डः ॥ १००६ ॥
( २४९ )
अनडूवान् ॥
इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह सूरि पट्टपरम्परात्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलाम
लिन्दायमानान्तेवासिसंविग्नशास्त्रीय तपोगच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायामुत्तरार्द्धे उणादिविवृतिः ॥
॥ अथोत्तरकृदन्तप्रक्रिया |
वत्स्र्यति गम्यादिः ॥ ५ । ३ । १ ॥ इनाद्यन्तः साधुः ॥ गमी ग्रामम् । आगामी ॥
वा हेतुसिद्धौ क्तः ॥ ५ । ३ । २ ॥ वदर्थाद्धातोः ॥ मेघदृष्टः सम्पन्नाः सम्पत्स्यन्ते वा शलयः ॥ कषोऽनिटः ॥ ५ । ३।३॥
वर्त्स्यदर्थात् क्तः । कष्टम् । कष्टा दिशस्तमसा । अनिट इति किम् ? । कषिताः शत्रवः । क्रियायां क्रियार्थायां तुम णकच् भविष्यन्ती ॥
क्वातुमम् भावे ॥ ९ । १ । १३ ॥ कर्त्तुं व्रजति । कारको व्रतति ॥ कालवेलासमये तुम्वाऽवसरे ॥। ५ । ४ । ३३ ॥
उपपदे गम्ये धातोः ॥ कालो भोक्तुम् । वेला भोक्तुम् । समयो भोक्तुम् । पक्षे, कालो भोक्तव्यस्य । अवसर इति किम् ? | कलः