________________
(२४१)
हरित् । सरित् । रोहित् । योषित् । तदित् ॥
उदकाच्छ्वेर्डित् ॥ ८८८ ॥ इत् ॥ उदग्वित् ॥
म्र उत् ॥ ८८९॥ मरुत् ॥ .
ग्रो मादिर्वा ॥ ८९०॥ उत् ॥ गर्मुत् । गरुत् ॥
शभसेरद् ॥ ८९४ ॥ शरत् । दरत् । दरदः । भसत् ॥
तनित्यजियजिभ्यो डद् ॥ ८९५ ॥ तद्, सः । त्य, स्यः । यद्, यः॥
इणस्तद् ॥ ८९६ ॥ एतद् एषः॥
प्रः सद् ॥ ८९७ ॥
पर्षत् ॥
द्रो हुस्वश्च ॥ ८९८॥ सद् ॥ षत् ॥
युष्यसिभ्यां कमद् ॥ ८९९ ।। युषिः सौषः । युष्मद्, यूयम् । अस्मद्, वयम् ॥
उक्षितक्ष्यक्षीशिराजिवन्धिपधिपूपिक्लिदिमिहिनुमस्जेरन् ॥ ९००॥
उक्षा । तक्षा । अक्षा । ईका। राजा । धन्वा । पञ्च । पूषा ।