________________
उणादिविवृतिः
(२३९)
-
ना॥
यतिननन्दिभ्यां दीर्घश्च ॥ ८५६ ॥ याता । ननान्दा । नखादित्वान्नोऽन्न ।
पातेरिञ्च ॥ ८५८ ॥ तः ॥ पिता ॥
मानिभ्राजेर्लुक् च ॥ ८५९ ॥ तः॥ माता । भ्राता ॥
जाया मिगः ॥ ८६०॥ तः ॥ जामाता ॥
नमेः प च ॥ ८६२ ॥ तः ॥ नप्ता ॥ हुपूग्गोन्नीप्रस्तुप्रतिहप्रतिप्रस्थाभ्य ऋत्विजि ॥ ८६३॥
तः॥ होता । पोता । उद्गाता । उन्नेता । प्रस्तोता । प्रतिहर्ता । प्रतिप्रस्थाता ॥ .
नियः षादिः ॥ ८६४ ॥ ऋत्विजितः ॥ नेष्टा॥
त्वष्टक्षत्तृदुहित्रादयः ॥ ८६५ ॥ तृप्रत्ययान्ता निपात्यन्ते ॥ त्विषेरितोच । त्वष्टा । क्षद खदने सौत्रः । क्षत्ता । दुहेरिट किश्च । दुहिता आदिग्रहणादन्येऽपि ॥
रातेः ॥ ८६६ ॥ राः । रायौ । रायः॥
युगमिभ्यां डोः ॥ ८६७ ॥