________________
श्रीलघुहेमप्रभाव्याकरणम.
स्कन्दिविद्यविलवित्तयो नुदिः, स्त्रियतिः शदिसदी भिदिच्छिदी । तुदी पहिदी खिदिक्षुदी राधिसाधिशुधयो युधिव्यधी ॥ ४ ॥
बन्ध बुध्यरुधयः क्रुधिक्षुधी, सिद्धयतिस्तदनु हन्तिमन्यती । आपिना तपिशपिक्षिपिच्छुपो, लुम्पतिः सृपिलिपी वापस्वपी ॥ ५ ॥ यभिरभिलभियामरमिनमिगमयः,
( १२ )
क्रुशिलिशिरुशिरिशि दिशतिदशयः । स्पृशिमृशतिविशतिदृशिशिष्ऌशुषयस्त्विषिपिषिविष्टकृषितुषिदुषिपुषयः ॥ ६ ॥
चितिर्द्विषरतो घसिवसती
रोहतिर्लुहिरिही अनिद्गदितौ ।
देग्धिदोग्धि लिहयो मिहिवहती नातिर्दहिरिति स्फुटमनिटः ॥ ७ ॥ "
घां गन्धोपादाने | ३ || जिघ्रति ॥
ट्वेघाशाच्छासो वा || ४ | ३ | ६७ ॥
सिचः परस्मैपदे लुक् ॥ अघ्रात् । पक्षे ॥
आदिरीत् ॥
सः सिजस्तेर्दिस्योः ॥ ४ । ३ । ६५ ॥