________________
(२२४)
श्रीलघुहेमभभाव्याकरणम्.
.
कोऽन्तश्च । विचकिल: । आदिशब्दादन्येऽपि ॥
हृषिवृतिचटिपटिशकिशङ्कितण्डिमग्युत्कण्ठिभ्य उलः॥ ४८५॥
हर्षुलः । वर्तुलः। चटुलः। पटुलः। शकुलः । शङ्कला। तण्डुलः। मङ्गुलम् । उत्कण्ठुलः ॥
कुलिपुलिकुशिभ्यः कित् ॥ ४९० ॥ ऊलः ॥ कुलूलः । पुलूलः । कुशूलः॥ कटिपटिकण्डिगण्डिशकिकपिचहिभ्य ओलः॥४९३॥
कटोलः । कटोला । पटोला । कण्डोलः । गण्डोलः। शकोलः। कपिः सौत्रः । कपोलः । चहोलः ॥
शमिकमिपलिभ्यो बलः ॥ ४९९ ॥ शम्बलम् । कम्बलः । पल्वलम् ॥ शीङस्तलक्पालवालणवलण्वलाः ॥ ५०१ ॥
शीतलम् । शेपालम् । जपादित्वात् पस्य वत्वे, शेवालम् । शैवालम् । शैवलम् । शेवलम् ॥ रुचिकुटि कुषिकशिशालिद्रुभ्यो मलक् ॥ ५०२ ॥
रुक्मलम् । न्यङ्कवादित्वात्कत्वम् । कुट्मलम् । कुष्मलम् । कशमलम् । शाल्मलः । द्रुमलम् ॥
लटिखटिखलिनलिकण्यशौसृशकगदृपशपिश्याशालापदिह्रसिणभ्यो वः ॥ ५०५ ॥
लद्वा ॥ खट्वा । खल्वम् । खल्वा । नल्वः । कण्वः । कण्वम् । अश्वः । सर्वः। शर्वः। कर्वः। गर्वः । दर्वाः। दः । पर्वः। शप्वः ।
६६EE