________________
उणादिविवृतिः
( २२१ )
वमत्रम् । पवत्रम् । बधत्रम् । यजत्रः । पतत्रम् | कडत्रम् | लत्वे,
कलत्रम् ॥
बन्धिवहिकटयश्यादिभ्य इत्रः ॥ ४५९ ॥ बन्धित्रम् । वहित्रम् | कटित्रम् । अशित्रम् | आदिपदात् लवि - म अमित्र इत्यादि सिद्धम् ॥
भृगवदिचरिभ्यो णित् ॥ ४६० ॥
इत्रः ॥ भावित्रम् । गारित्रम् । वादित्रम् । चारित्रम् ॥ शामाइयाशक्यम्बयमिभ्यो लः ॥ ४६२ ॥
शाला || माला । श्यालः । शक्तः । अम्ब्ल: । अम्लः ॥
शुकशीमृभ्यः कित् ॥ ४६३ ॥
शुक्लः ॥ शीलम् । मूलम् ॥
मृदिकन्दिकुण्डिमण्डिमङ्गिपटिपाटिशकिकेवृदेवृकमियमिशलिकलिपलिगुध्वञ्चिचञ्चिचपिवहिदिहिकुहितसृपिशितुसिकुस्यनिद्रमेरलः ॥ ४६५ ॥
1
मर्दलः । कन्दलः । कुण्डलम् । मण्डलम् । मङ्गलम् । पटलम् । पाटलः । शकलम् । केवलम् । देवलः । कमलम् । यमलम् । शललम् । कललम्। पललम् । गवल: । धवल: । अञ्चलः । चञ्चलः । चपलः । वहलम् । देहली। कोहलः। बाहुलकाद् गुणः । तरलः । सरलः । पेशलः । तोसलाः । कोसलाः । अनलः । द्रमलम् ॥
नहिलङ्गे-दीर्घश्च ॥ ४६६ ॥
नाहलः ॥ लाङ्गलम् ॥
तृपिवपि कुपि कुशिकुटि वृषिमुसिभ्यः कित् ॥ ४६८ ॥