________________
(२१०)
श्रीलघुहेमप्रभाव्याकरणम्. .
पः॥ यूपः। सूपः । कूपः। रूपम् । तूपः। च्यूपः। स्तूपः। आदिशब्दादन्येऽपि ॥
कृशसभ्य ऊर् चान्तस्य ॥ २९८॥ पः॥ कूपम् । शूर्पः । सूर्पः॥
शदिबाधिखनिहनेः ष च ॥ २९९ ॥ पः ॥ शष्पम् । बाष्पः । खष्पः । खष्पम् । इष्पः ॥
पम्पाशिल्पादयः ॥ ३०० ॥ पान्ता निपात्यन्ते । पातेर्मोऽन्तो इस्वश्च । पम्पा। शीलयतेः शलतेः शेते शिलादेशश्च । शिल्पम् । आदिशब्दादन्येपि ॥
नियो वा ॥ ३०२ ॥ पः कित् ।। नीपः । नेपः॥ भुजिकुतिकुटिविटिकुणिकुष्युषिभ्यः कित् ॥ ३०५ ॥ अपः॥ भुजपः। कुतपः । कुटपः। विटपः। कुणपः। कुषपः। उपपः ।।
विष्टपोलपवातपादयः ॥ ३०७ ॥ किदपप्रत्ययान्ता निपात्यन्ते ॥ विषेस्तोऽन्तश्च। विष्टपम् । बलेरुल् च । उलपम् । वातेस्तोऽन्तश्च । वातपः । आदिशब्दादन्येपि ॥
कलिगलेरस्योच्च ॥ ३१५॥ फः ॥ कुल्फः । गुल्फः ॥
शम्यमणिहा ॥ ३१८ ॥ बः ॥ शम्वः । शाम्बः । अम्बा । आम्बः ॥
शल्यलेरुच्चातः ॥ ३१९ ॥ वः ॥ शुल्बम् । उल्बम् ॥