________________
उणादिविवृतिः
(२११)
हहह
तुम्बस्तम्बादयः ॥ ३२० ॥ ताम्यतेरत उत्वं च ॥ तुम्बम् । स्तम्भेलुक् च । स्तम्बः । आदिशब्दादन्येऽपि ॥
गृदृरमिहनिजन्यर्तिदलिभ्यो भः ॥ ३२७ ॥ गर्भः॥ दर्भः । रम्भा। हम्मा । जम्भः । जम्मा । अर्भः । दल्भः॥ कशगशलिकलिकडिगर्दिरासिरमिवडिवल्लेरभः॥३२९॥
करभः ॥ शरभः। गरभः। शलभः । कलभः । कडभः । गर्दभः। रासभः । रमभः । वडभी । लत्वे, वलभी । वल्लभः ॥
ऋषिवृषिलुसिभ्यः कित् ॥ ३३१ ॥ अभः ॥ ऋषभः । वृषभः । लुसिः सौत्रः । लुसभः ॥
काकुसिभ्यां कुम्भः ॥ ३३७ ॥ के शब्दे ।। कुम्भः । कुसुम्भम् ॥
अारिस्तुसुहुसृघृधशक्षियक्षिभावाव्याधापायावलिपदिनीभ्यो मः ॥ ३३८ ॥
अर्मः ॥ ईर्मम् । स्तोमः। सोमः। होमः। सर्मः। सर्मम् । धर्मः। धर्मः । शर्मम् । क्षेमम् । यक्ष्मः । भामः । भामा । वामः । म्यामः । धामम् । पामा । यामः । वल्मः । पद्मम् । नेमः ॥
प्रसिहाग्भ्यां ग्राजिहौ च ॥ ३३९ ॥ मः ॥ ग्रामः । जिह्मः ॥
विलिभिलिसिधीन्धिधूसूश्याध्यारुसिविशुषिमुपीषिसुहियुधिदसिभ्यः कित् ॥ ३४०॥
मः ॥ विल्मम् । भिल्मम् । सिध्मम् । इध्मम् । धूमः । समः ।