________________
(२०२)
श्रीलघुहेमप्रभाव्याकरणम्.
६८६
गः ॥ पूगः । मुद्गः ॥
भृवृभ्यां नोऽन्तश्च ॥ ९४ ॥ किद् गः ॥ भृङ्गः । वृङ्गः ॥
शङ्गशाादयः ॥ ९६ ॥ शृणातेर्हस्वो नोऽन्तश्च ॥ शृङ्गम् । वृद्धिः । शाङ्गम् । आदिग्रहणात् हंग् हरणे, हार्गः॥
तडेरागः ॥ ९७॥ तडागम् ॥
पतितमितृपकशल्वादेरङ्गः ॥ ९८ ॥ पतङ्गः ॥ तमङ्गः । तरङ्गः । परङ्गः । करङ्गः। शरङ्गः लवङ्गः । आदिग्रहणादन्येभ्योऽपि ॥
विडिविलिकुरिमृदिपिशिम्यः कित् ॥ १०१ ॥ अङ्गः । विडङ्गः । विलङ्गः । कुरङ्गः । मृदङ्गः । पिशङ्गः ॥
स्थार्तिजनिभ्यो घः ॥ १०९ ॥ स्थाघः ॥ अर्घः । जङ्घा ॥
कूपूसमिणभ्यश्चट दीर्घश्च ॥ ११२ ॥ कूचः ॥ कूची । पूचः । समीचः ॥
दिव्यविश्रुकुकर्विशकिकडिकृपिचपिचमिकम्येधिकर्किमार्कककिखतकस्मृभृवृभ्योऽटः ॥ १४२ ॥
देवटः ॥ अवटः। श्रवटः। कवटः। कर्वटम् । शकटम् । कङ्कटः। कर्पटम् । चपटः । चमटः । कमटः । एघटः । कर्कटः । मर्कटः । ककूखटः । तरटः । करटः । सरटः । भरटः । वरटः॥
तककृपिकम्पिकृषिभ्यः कीटः ॥ १५१ ॥