________________
( १९८ )
श्रीलघुहेमप्रभाव्याकरणम्.
सत्यर्थे ॥ राज्ञां ज्ञातः, इष्टः, पूजितः । भिन्नः । शीलितः । रक्षितः ॥ ॥ इति पूर्वकृदन्तम् ॥
उणादयः ॥ ५ । २ । ९३ ॥
सदर्थाद्धातोर्बहुलम् || संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्यानुबन्धोपपदं विज्ञातव्यमुणादिषु ॥ १ ॥
भीमादयोऽपादाने ॥ ५ । १ । १४ ॥
भीमः ॥ भयानकः । भीष्मः ॥
सम्प्रदानाच्चान्यत्रोणादयः ।। ५ । १ । १५ ॥
अपादानात् ॥ कारुः । कषिः ॥
॥ अथोणादिविवृतिः ॥
कृवापाजिस्वदिसाध्यशौदृस्नासनिजानिरहीण्
भ्य उण् ॥ १ ॥
सदर्थेभ्यः सम्प्रदानापादानाभ्यामन्यत्र कारके भावे च संज्ञायां बहुलम् ॥ करोति कृणोति वा कारुः । वायुः । पायुः । जायुः । स्वादुः । साधुः । आशु । आशुः । दारुः । स्नायुः । सानु । जानीत्याकारनिर्देशान्न जनवध इति वृद्धिप्रतिषेधो न । जानु । राहुः । आयुः ॥
I
अः ॥ २ ॥
धातोः ॥ भवः । तरः ॥
नञः क्रमिगमिशमिखन्याकमिभ्यो डित् ॥ ४ ॥
अः । नकः । नगः । नशः । नखः । नाकः ॥