________________
( १४४ )
श्रीलघुमाकरणम्.
क्तयोः परयोस्तद्योगे च तयोस्तः ॥ मूर्त्तिः काठिन्यम् । शीनम् । शीनवटृतम् । शीतं वर्त्तते । शीतो वायुः ॥
1
प्रतेः ॥ ४ । १ । ९८ ॥
श्यः क्तयोः परयोः शीः, तद्योगे क्तयोस्ती नश्च ॥ प्रतिशीनः । प्रतिशीनवान् ॥
वाभ्यवाभ्याम् ॥ ४ । १ । ९९ ॥
यः क्तयोः परयोः शीः तद्योगे च तयोस्तोऽस्पर्शे नश्च ॥ अभिशीनः । अभिशीनवान् । अभियानः । अभिश्यानवान् । अवशीनः । अवशीनवान् । अवश्यानः । अवश्यानवान् । अभिशीनं घृतम् । अभिश्यानं घृतम् । अवशीनम्, अवश्यानं वा हिमम् । अभिशीतो वायुः । अवशीतो वायुः । अभिश्यानो वायुः । अवश्यानो वायुः ।।
श्रः शतं हविः क्षीरे ॥ ४ । १ । १०० ॥
निपात्यते । श्रुतं हविः । नृतं क्षीरं स्वयमेव । हविः क्षीर इति किम् ? । श्राणा यवागूः ॥
श्रपेः प्रयोक्त्रैक्ये ॥ ४ । १ । १०१ ।
के हविःक्षीरयोः शूर्निपात्यते ॥ नृतं हविः क्षीरं वा चैत्रेण । हविः क्षीर इत्येव । श्रपिता यवागूः । प्रयोक्त्रैक्य इति किम् ? । पितं हविचैत्रेण मैत्रेण ॥ लङ्गिकम्प्योरुपतापाङ्गविकृत्योः ॥ ४ । २ । ४७ ॥
उपास्य नः क्ङिति लुक् । विलगितः । विकपितः । उपतापाङ्गविकृत्योरिति किम् ? । विलङ्गितः । विकम्पितः ॥
उति शवद्भ्यः कौ भावारम्भे । ४ । ३ । २६ ॥