________________
कृदन्तप्रकरणम्.
( १८३ )
भित्तं शकलम् ॥ ४ । २ । ८१ ॥ भिदेः परस्य क्तस्य नो न शकलपर्यायश्चेत् ॥ भित्तम् । भिन्नमन्यत् ॥ वित्तं धनप्रतीतम् ॥ ४ | २ | ८२ ॥
विन्दतेः परस्य तस्य नो न, धनप्रतीतयोः पर्यायश्चेत् ॥ वित्तं धनम् । विचः प्रतीतः । धनप्रतीतमिति किम् ? । विन्नः ॥ आदितः ॥ ४ । ४ । ७१ ॥
तयोरादिरिड् न । ति चोपान्त्येत्युत्वम् । फुल्तः ॥ क्तयोरनुपसर्गस्य ॥ ४ । १ । ९२ ॥
प्यायः पीः ॥ पीनम् । पीनवत् । अनुपसर्गस्येति किम् ? | प्राप्यानो मेघः ॥
आङोऽन्धूधसोः ॥ ४ । १ । ९३ ॥
प्यायः क्तयोः परतः पीः ॥ अपीनोऽन्धुः | आपीनमूधः । अन्धूधसोरिति किम् ? । आप्यानश्वन्द्रः । आङ एवेति नियमात् प्रप्यानमूधः ॥
स्फायः स्फीर्वा ॥ ४ । १ । ९४ ॥
क्तयोः ॥ स्फीतः । स्फीतवान् । स्फातः । स्फातवान् ॥ प्रसमः स्त्यः स्तीः ॥ ४ । १ । ९५ ॥
क्तयोः ॥ प्रसंस्तीतः । प्रसंस्तीतवान् । प्रसम इति किम् ? | सम्प्रस्त्यानः ॥
प्रात्तश्च मो वा ॥ ४ । १ । ९६ ॥
स्त्यः क्तयोः परयोः स्तीः क्तयोस्तः ॥ प्रस्तीतः । प्रस्तीतवान् । प्रस्तीमः । प्रस्तीमवान् ॥
श्यः शीर्द्रवमूर्त्तिस्पर्शे नश्चास्पर्शे ॥ ४ । १ । ९७ ॥