________________
(१८२)
श्रीलघुहेमप्रभाव्याकरणम्.
~
~
~
वाऽऽक्रोशदैन्ये ॥ ४ । २ । ७५ ॥ गम्ये क्षेः परस्याघ्यार्थे क्तयोस्तो नस्तद्योगे क्षीश्च ॥ क्षीणायुः क्षितापुर्वा जाल्मः । क्षीणकः क्षितको वा तपस्वी ॥ ऋहीघ्राधात्रोन्दनुदविन्तेर्वा ॥ ४ । २। ७६ ॥
क्तयोस्तो नः ॥ ऋणम् । ऋतः। हीणः । हीतः । हीणवान् । हीतवान् । घ्राणः २। घ्राणवान् २। ध्राणः २। ध्राणवान् २ । त्राणः २। त्राणवान् २॥
डीयश्व्यदितः क्तयोः ॥ ४ । ४ । ६१ ॥ धातोरादिरिड् न ॥ समुन्नः २। समुन्नवान् २ । डीनः । डीनवान् । शूनः । शूनवान् । त्रस्तः। त्रस्तवान् । नुन्नः२। नुन्नवान्। विनः २ । विन्नवान् २ । प्रथमाभ्यामप्राप्ते घ्रादिभ्यस्तु प्राप्ते विकल्पः । तेन दान्तानां पूर्वेण दस्यापि नत्वम् । तकारनत्वाभावपक्षे च सबियोगशिष्टत्वादस्यापि न ॥
दुगोरू च ॥४।२। ७७॥ क्तयोस्तो नः ॥ दूनः । दूनवान् । गूनः । गूनवान् ।।
शुषिपचो मकवम् ॥ ४ । २ । ७८ ॥ क्तयोस्तः ॥ क्षामः। क्षामवान् । शुष्कः। शुष्कवान्। पक्कः । पकवान्॥
निर्वाणमवाते ॥ ४ । २ । ७९ ॥ कर्तरि क्तयोस्तो नो निपात्यते ॥ निर्वाणो मुनिः। अवात इति किम् ? । निर्वातो वातः ॥ - अनुपसर्गाः क्षीबोल्लाघकृशपरिकृशफुल्लोत्फुल्लसंफुल्लाः ॥ ४ । २ । ८० ॥
तान्ता निपात्यन्ते ॥ क्षीवः । उल्लाघः । कृशः। परिकृशः। फुल्लः । उत्फुल्लः । सम्फुल्लः । अनुपसर्गा इति किम् ?। पक्षीवितः॥