________________
( १८१ )
ऋल्वादेरेषां तो नोऽप्रः ॥ ४ । २ । ६८ ॥ तिक्तक्तवतूनाम् ॥ तीर्णिः । तीर्णः । तीर्णवान् । लूनिः । लूनः । लूनवान् । धूनिः । धूनः । धूनवान् । अम इति किम् ? | पूर्त्तिः । पूर्त्तः । पूर्त्तवान् ॥
सूयत्याद्योदितः ॥ ४ । २ । ७० ॥
क्तयोस्तो नः ॥ सूनः । सूनवान् । दूनः । दूनवान् । लग्नः । लग्नवान् ॥ व्यञ्जनान्तस्थातोऽख्याध्यः ।। ४ । २ | ७१ ॥
धातोः परस्य क्तयोस्तो नः ।। स्त्यानः । स्त्यानवान् । व्यञ्जनेति किम् ? | यातः । अन्तस्थेति किम् ? । स्नातः । आत इति किम् ? | च्युतः । धातोर्व्यञ्जनेति किम् ? । निर्यातः । आख्याध्यइति किम् ? | ख्यातः । ध्यातः । आत: परस्येति किम् ? । दरिद्रितः ॥ पूदिव्यञ्चैर्नाशाद्यूतानपादाने ॥ ४ । २ । ७२ ॥ परस्य क्तयोस्तो नः ॥ पूना यवाः । आनूनः ॥ वेटोsपतः ।। ४ । ४ । ६२ ॥
कृदन्तप्रकरणम्.
धातोरेकस्वरात् तयोरादिरिड् न । समनः । अपत इति किम् ? | पतितः । पूर्वसूत्रे नाशाद्यूतानपादान इति किम् ? । पूतम् । द्यूतम् । उदक्तं जलम् ॥
सेसे कर्मकर्त्तरि ॥ ४ । २ । ७३ ॥
क्तयोस्तो नः ॥ सिनो ग्रासः स्वयमेव । कर्मकर्त्तरीति किम् ? | सितो ग्रासो मैत्रेण ॥
क्षेः क्षी चाघ्यार्थे ॥ ४ । २ । ७४ ॥
क्तयोस्तो नः ॥ क्षीणः । क्षीणवान् मैत्रः । अध्यार्थ इति किम् ? | क्षितमस्य ॥