________________
(१६)
श्रीलघुहेमप्रभाव्याकरणम्.
टः॥ पुरूसरी । अग्रतःसरः । अग्रेसरः ॥
पूर्वाकर्तुः ॥ ५। १ । १४१ ॥ सर्तेष्टः ॥ पूर्वसरः । कर्तुरिति किम् ? । पूर्वसारः ॥
स्थापास्नात्रः कः ॥५।१।१४२॥ नाम्नः ॥ समस्थः ॥ कच्छपः । नदीष्णः । धर्मत्रम् ॥
शोकापनुदतुन्दपरिमृजस्तम्बरमकर्णेजपं प्रियालसहस्तिसूचके ॥ ५। १ । १४३ ॥ __कान्तं निपात्यते ॥ शोकापनुदः प्रिया । तुन्दपरिमृजोऽलसः। स्तम्बेरमो हस्ती । कर्णेजपोऽतिखलः । प्रियेत्यादि किम् ? । शोकापनोदो धर्माचार्यः ॥
मूलविभुजादयः ॥ ५।१ । १४४ ॥ कान्ता यथादर्शनं निपात्यन्ते ॥ मूलविभुजो रथः । कुमुदं कैरवम् ।।
दुहेर्दुघः ॥ ५। १ । १४५ ॥ नाम्नः ॥ कामदुधा ॥
भजो विण ॥ ५। १ । १४६ ॥ नाम्नः ॥ अईभाक् ॥ __ मन्वन्क्वनिपविच् क्वचित् ॥ ५।१।१४७॥ नाम्नः पराद्धातोः ॥ इन्द्रशर्मा ॥
वन्याङ् पञ्चमस्य ।। ४ । २ । ६५ ॥ धातोः ॥ विजावा । सुधी। । शुभंयाः॥
किम् ॥ ५। १ । १४८॥ नाम्नः पराडातोयथालक्ष्यम् ॥ उखाश्रत् । वहाभ्रट् । पञ्युपसर्गस्येति दीर्घः ॥