________________
( १७४)
श्रीलघुहेममभाव्याकरणम्.
वहाभ्राहिः ॥ ५ । १ । १२३ ॥
कर्मणः खश् ॥ वलिहः । अभ्रंलिहः ||
बहुविध्वरुस्तिलात्तुदः ॥ ५ । १ । १२४ ॥
कर्मणः
कर्मणः
खश् ।। बहुन्तुदः । विधुन्तुदः । अरुन्तुदः । तिलन्तुदः ॥ ललाटवातशर्द्धात्तपाजहाकः ॥ ५ । १ । १२५ ॥ खश् ॥ ललाटन्तपः । वातमजः । शर्द्धअहः ॥ असूर्योग्राद् दृशः ॥ ५ । १ । १२६ ॥
कर्मणः
ः खश् ॥ असूर्यम्पश्या राजदाराः । दृशिना संबद्धस्यनत्रः सूर्येण सहासामर्थ्येऽपि गमकत्वात्समासः । उग्रम्पश्यः ॥
इरम्मदः ॥ ५ । १ । १२७ ॥
इरापूर्वान्मदेः खश श्याभावश्च निपात्यते । इरंमदः ॥
नग्नपलितप्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्व्य
saर्भुवः खिष्णुखुकञौ ॥ ५ । १ । १२८ ॥
नमम्भविष्णुः || नवम्भावुकः । पलितम्भविष्णुः । पलितम्भावुकः । प्रियम्भविष्णुः । प्रियम्भावुकः । अन्धम्भविष्णुः । अन्धम्भावुकः । स्थूलम्भविष्णुः । स्थूलम्भावुकः । सुगमम्भविष्णुः । सुगमम्भावुकः । आढ्यम्भविष्णुः । आट्यभावुकः । तदन्तात् । सुनग्नम्भविष्णुः । सुननम्भावुक इत्यादि । अच्छेरिति किम् ? । आढ्यीभविता ।।
कृगः खनट् करणे ॥ ५ । १ । १२९ ॥
नग्नादिभ्योऽच्व्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः ॥ नमङ्करणं द्यूतम् । पलितङ्करणम् । प्रियङ्करणम् । अन्धङ्करणम् । स्थूलङ्करणम् । सुभगङ्करणम् । आढ्यङ्करणम् । सुननङ्करणम् । व्यर्थं इति किम् ? | नङ्करोति द्यूतेन ॥