SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ कृदन्तमकरणम्. कर्मणः संज्ञायां खः ॥ बसुन्धरा भूः ॥ पुरन्दर भगन्दरौ ॥ ५ । १ । ११४ ॥ संज्ञायां खान्तौ निपात्येते । पुरन्दरः शक्रः । भगन्दरो व्याधिः ॥ वाचंयमो व्रते ॥ ५ । १ । ११५ ॥ यमो व्रती ॥ (१७३) मन्याणिन् ॥ ५ । १ । ११६ ॥ कर्मणः ॥ पण्डितमानी बन्धोः ॥ कर्त्तुः खश् ॥ ५ । १ । ११७ ॥ प्रत्ययार्थात्कर्मणः परान्मन्यतेः ॥ पण्डितम्मन्यः । कर्तुरिति किम् ? | पटुमानी चैत्रस्य ॥ एजेः ॥ ५ । १ । ११८ ॥ कर्मणः खश् ॥ अरिमेजयः ॥ शुनीस्तनमुञ्जकूलास्य पुष्पात् ट्धेः ॥ ५ । १ । ११९ ॥ कर्मणः खश् ॥ शुनिन्धयः । स्तनन्धयः । मुअन्धयः । कूलन्धयः । आस्यन्धयः । पुष्पन्धयः ॥ नाडीघटीखरी मुष्टिनासिकावाताद् ध्मश्च ॥ ५|१|१२०॥ कर्मणः ट्वेः खश् ॥ नाडिन्धमः । नाडिन्धयः । घटिन्धमः । घटिन्धयः । खरिन्धमः । खरिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः । नासिकन्धमः । नासिकन्धयः । वातन्धमः । बातन्धयः ॥ पाणिकरात् ॥ ५ । १ । १२१ ।। कर्मणो ध्मः खश् ॥ पाणिन्धमः । करन्धमः ॥ कूलादुजोद्वहः ॥ ५ । १ । १२२ ॥ कर्मणः खश् ॥ कूलमुडुजः । कूलसुद्वहः ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy