________________
वृदन्तप्रकरणम्.
कर्मणो दो डः ॥ पथिप्रज्ञः । प्रपामदः ॥ आशिषि हनः ॥ ५ । १ । ८० ॥
(१६.)
कर्मणो डः ॥ शत्रुहः ॥
क्लेशादिभ्योऽपात् ॥ ५ । १ । ८१ ॥ कर्मभ्यो हन्तेर्डः ॥ क्लेशापहः । तमोपहः । बहुवचनादन्येभ्यो ऽपि ॥ कुमारशीर्षाणिन् ॥ ५ । १ । ८२ ॥
कर्मणो हन्तेः ॥ कुमारघाती । शीर्षवाती ॥ अचित्ते टक् ।। ५ । १ । ८३ ॥
1
कर्मणः पराद्धन्तेः कर्त्तरि ॥ वातघ्नं तैलम् । अचित्त इति किम् ? | पापघातो यतिः ॥
जायापतेश्चिह्नवति ॥ ५ । १ । । ८४ ॥
कर्मणः पराद्धन्तेः कर्त्तरि टक् ।। जायाघ्नो ब्राह्मणः । पतिघ्नी कन्या ॥ ब्रह्मादिभ्यः ॥ ५ । १ । ८५ ।।
कर्मभ्यः पराद्धन्तेष्टक् ।। ब्रह्मघ्नः । गोघ्नः ॥
हस्तिबाहुकपाटाच्छक्तौ ।। ५ । १ । ८६ ॥
कर्मणः पराद्धन्तेर्गम्यायां टक् ॥ हस्तिनः । बाहुघ्नः । कपाटनः । शक्ताविति किम् ? । हस्तिघातो विषदः ॥
नगरादगजे ॥ ५ । १ । ८७ ।।
कर्मणः पराद्धन्तेः कर्त्तरि टक् ॥ नगरघ्नो व्याघ्रः । अगज इति किम् ? । नगरघातो हस्ती ॥
राजघः ॥ ५ । १ । ८८ ॥
राज्ञः कर्मणः पराद्धन्तेष्ट घादेशश्च निपात्यते ॥ राजघः ॥ पाणिघताडघौ शिल्पिनि ॥ ५ । १ । ८९ ॥