________________
( ६ )
श्री लघुहेमप्रभाव्याकरणम्.
धातोः पराद्धेः॥ भव । भवतात् । भवतम् । भवत । आशिषि, श्रेयस्वी भवतात् सौम्य । भवानि । भवाव । भवाम || अनद्यतने ह्यस्तनी ॥ ५ । २ । ७ ॥
भूतेऽर्थेवर्तमानाद्धातोः ॥
अधातोरादिह्यस्तन्यां चामाङा ॥ ४ । ४ । २९ ॥
अद्यतनीक्रियातिपत्त्योश्च ॥ अभवत् ह्यो जिनाच | अभवताम् । अभवन् । अभवः । अभवतम् । अभवत | अभवम् । अभवाव । अभवाम ||
भूतार्थाद्धातोः ॥
अद्यतनी ॥ ५ । २ । ४॥
सिजद्यतन्याम् ॥ ३ । ४ । ५३ ॥
धातोः ॥ इकारचकारौ विशेषणार्थौ ॥
पिबैतिदाभूस्थः सिचो लुप्परस्मै न चेट् ॥
४ । ३ । ६६ ॥
लुब्योगे || देति दासंज्ञा धातवः ॥
भवतेः सिलुपि ॥ ४ । ३ । १२ ॥
न गुणः ॥ अडागमे, अभूत् अद्य दृष्टिः । अभूताम् । अभू-अन् इति स्थिते धातोरिवर्णोवर्णस्येत्युवादेशे ||
भुवो वः परोक्षायतन्योः ॥ ४ । २ । ४३ ॥ उपान्त्यस्योत् ।। अभूवन् । अभूः । अभूतम् । अभूत । अभूवम् । अभूव । अभूम ॥
परोक्षे ॥ ५ । २ । १२॥ भूतानद्यतने वर्तमानाद्धातोः परोक्षा | भू- इति स्थिते ॥