________________
आख्यातप्रकरणम्..
शिदवित् ॥४।३ । २०॥ डिद्ववत् ॥ इति तसि गुणाप्राप्तावपि शक्निमित्तो गुणः । तौ भवतः। लुगस्यादेत्यपदे इत्यकारलकि, ते भवन्ति। त्वं भवसि । युवां भवथः । यूयं भवथ ॥
मव्यस्याः ॥ ४ । २ । ११३॥ धातोर्विहिते प्रत्यये ॥ अहं भवामि । आवां भवावः। वयं भवामः। अन्यदर्थादिद्वयत्रययोगे शब्दस्पर्द्धात् पराश्रयमेव वचनम् । स च त्वं च भवथः । स च त्वं च अहं च भवामः ॥ विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थने॥५॥४॥२८॥ सप्तमीपञ्चम्यौ॥ सम्भावनादिष्वपि ॥
यः सप्तम्याः ॥ ४ । २ । १२२ ॥ अतः परस्यः ॥ शिष्यो गुरुसेवी भवेत् । भवेदसौ भव्यः श्राद्धत्वात् ॥
याम्युसोरियमियुसौ ॥ ४ । २ । १२३ ॥
अतः परयोः ।। भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेत्र ॥
प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ ॥ ५।४। २९॥
आशिष्याशीःपञ्चम्यौ ॥ ५। ४ । ३८॥ अध्ययनायोद्यतो भवतु चैत्रः॥
आशिषि तुह्योस्तातङ्॥ ४ । २ । ११९ ॥ वा ॥ आयुष्मान् भवतु भवताद् वा भवान् । भवताम् । भवन्तु ।
अतः प्रत्ययाल्लुक् ॥ ४।२। ८५ ॥