________________
श्रीलघुहेमप्रभाव्याकरणम्.
त्रीणि त्रीण्यन्ययुष्मदस्मदि ॥ ३ । ३ । १७ ॥
( ४ )
अभिधेये सर्वासां विभक्तीनां यथाक्रमं स्युः ॥ एकद्विबहुषु ॥ ३ । ३ । १८ ॥
अन्यादिषु यानि त्रीणि त्रीणि वचनान्युक्तानि तानि यथासख्यं स्युः ॥ -
सति ।। ५ । २ । १९॥
प्रारब्धापरिसमाप्तः क्रियाप्रबन्धः सन् वर्त्तमानः । तदर्थाद्धातोवर्त्तमाना ॥ भू सत्तायाम्, सत्ताद्यर्थ उपलक्षणम्, मृदो घटो भवति इत्यादी उत्पद्यते इत्याद्यर्थात् । तथा चाह
निपाताश्रोपसर्गाच धातवश्चेत्यमी त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ १ ॥
अकर्मकश्चायम्, फलसमानाधिकरणव्यापारबोधकत्वं समानाधिकरणफलावच्छिन्नव्यापारबोधकत्वं वाऽकर्मकत्वम् । फलव्यधिकरणव्यापारबोधकत्वं व्यधिकरणफलावच्छिन्नव्यापारबोधकत्वं वा सकर्मकत्वम् । तथा चाह
फलव्यापारयोरेक-निष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ १ ॥ धातोरर्थान्तरे वृत्ते- धीस्वर्थेनोपसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकार्मिका क्रिया ॥ २ ॥
कर्त्तर्यनद्भयः शव् ॥ ३ । ४ । ७१ ॥ शिति । शकारवकारावितौ ॥
नामिनो गुणोति ॥ ४ । ३ । १ ॥ धातोः प्रत्यये || अवादेशे, स भवति ॥