________________
(१६६)
श्रीलघुहेममभाव्याकरणम्.
विक्षिपः ॥ मियः । किरः। गिरः । ज्ञः ॥
वो विष्किरो वा । ४ । ४ । ९६ ॥ पाच्ये निपात्यते । विष्किरः, विकिरो वा पक्षी ॥
गेहे ग्रहः ॥ ५।१। ५५ ॥ कः ॥ गृहम् । गृहाः ॥
उपसर्गादातो डोऽश्यः ॥ ५। १ । ५६ ॥
धातोः ॥ आह्वः। उपसर्गादिति किम् ? । दायः । अश्य इति किम् ? । अवश्यायः ॥
व्याघ्रा प्राणिनसोः ॥ ५। १ । ५७ ॥ निपात्येते । व्याघः प्राणी ॥ आघ्रा नासिका ॥ , घ्रामापा दृशः शः ॥ ५। १। ५८ ॥ जिघ्रः । उद्धमः । पिवः । उद्धयः । उत्पश्यः ॥ साहिसातिवेयुदेजिधारिपारिचेतेरनुपसर्गात्॥५॥१॥५९॥
ण्यन्ताच्छः ॥ साहयः । सातयः । वेदयः । उदेजयः। धारयः। पारयः । चेतयः । अनुपसर्गादिति किम् ? । प्रसाहयिता ॥
लिम्पविन्दः ॥ ५। १।६०॥ अनुपसर्गाच्छः । लिम्पः । विन्दः ।।
निगवादेर्नानि ॥ ५। १॥ ६१ ॥ यथासङ्ख्य लिम्पविन्दः शः ॥ निलिम्पा देवाः । गोविन्दः। कुविन्दः । नानीति किम् ? । निलिपः। वा ज्वलादिदुनीभूग्रहास्तोर्णः॥५।१।६२॥
अनुपसर्गात् ॥ ज्वलः । ज्वालः । चलः । चालः । दवः । दावः । नयः । नायः। भवः । भावः । व्यवस्थितविभाषेयम् ।