________________
कृदन्तप्रकरणम्.
( १५७ )
दर्थविशेषोक्तिं विना ॥ कर्ता ॥
व्याप्ये घुरकेलिमकृष्टपच्यम् ॥ ५ । १ । ४ ॥ कर्त्तरि ॥ भङ्गुरं काष्ठम् । पचेलिमा माषाः । कृष्टपच्याः शालयः ॥ सङ्गतेऽजर्यम् ॥ ५ । १ ॥ ५॥
कर्त्तरि निपात्यते ॥ अजर्यमार्यसङ्गतम् ॥
रुच्याव्यथ्यवास्तव्यम् ॥ ५ । १ । ६॥ कर्त्तरि निपात्यते ॥ रुच्यो मोदको मैत्राय । अव्यथ्यो मुनिः । वास्तव्यः ॥
भव्य गेयजन्यरम्या पात्याप्लाव्यं नवा ॥ ५ । १ । ७ ॥ कर्त्तरि निपात्यते || भव्यः । गेयः साम्नाम् । जन्यः । रम्यः । आपात्यः । आप्लाव्यः । पक्षे, भव्यम् । गेयानि सामानि । जन्यम् । रम्यम् । आपात्यम् । आप्लाव्यम् ॥
प्रवचनीयादयः ॥ ५ । १ । ८॥
कर्त्तरि वा निपात्यन्ते ॥ प्रवचनीयो गुरुः शास्त्रस्य । प्रवचनीयं गुरुणा शास्त्रम् । उपस्थानीयः शिष्यो गुरोः । उपस्थनीयः शिष्येण गुरुः । असरूपोऽपवादे वोत्सर्गः प्राकू केः ॥ ५ । १ । १६ ॥
अवश्यलाव्यम् । अवश्यलवितव्यम् । असरूप इति किम् ? | ध्यणि यो न स्यात् । कार्यम् । प्राकू तेरिति किम् ? । कृतिः । चिकीर्षा ॥
ते कृत्याः ॥ ५ । १ । ४७ ॥
घ्यण्तव्यानीययक्यप्प्रत्ययाः ॥
ऋवर्णव्यञ्जनाद् ध्यण् ॥ ५ । १ । १७ ॥ धातोः ॥ कार्यम् ॥
निश्चजो: कगौ घिति ॥ ४ । १ । १११ ॥