________________
(१५६) श्रीलघुहेममभाव्याकरणम्. तध्वमौ च ताष्पदि । व्रीहीन वप लुनीहि पुनीहि इत्येवं यतते यत्यते वा । पक्षे, बीहीन् वपति लुनाति पुनाति इत्येवं यतते यत्यते वा। सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीते पठ्यते वा। पक्षे, सूत्रमधीते नियुक्तिमधीते भाष्यमधीते इत्येवमधीते पठ्यते वा। व्रीहीन् वपत लुनीत पुनीतेत्येवं चेष्टध्वे । व्रीहीन् क्प लुनीहि पुनीहि इत्येवं चेष्टध्वे । पक्षे, व्रीहीन् वपथ लुनीय पुनीथेत्येवं यतध्वे । सूत्रमधीध्वं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवमधीध्वे । सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीध्वे । पक्षे, सूत्रमधीध्वे नियुक्तिमधीध्वे भाष्यमधीध्वे इत्येवमधीध्वे । सामान्यार्थीति किम् ?। व्रीहीन् वप लुनीहि पुनीहि इत्येवं वपति लुनाति पुनातीति मा भूत् ॥
इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविजयचरणकमलामलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसरिविरचितायां लघुहेमप्रभायामुत्तरार्द्ध त्याद्यर्थप्रक्रिया ॥
॥ अथ कृदन्तप्रक्रिया ॥
आतुमोऽत्यादिः कृत् ॥ ५।१।१॥ धातोविधीयमानो वक्ष्यमाणः प्रत्ययः ॥ घनघात्यः । अत्यादिरिति किम् ? । प्रणिस्ते ॥
बहुलम् ॥ ५। १।२॥ अधिकारोऽयम्॥ कृनिर्दिष्टादर्थादन्यत्रापि । पादहारकः। मोहनीयं कर्म । सम्पदानम् ॥
.. कर्तरि ॥ ५। १।३॥