________________
आख्यातमकरणम्. - (१५५)
marrrrrrr.mir कर्तरि गम्ये सप्तमी ॥
भवता खलु भारो वाह्यः। उह्येत । भवान् भारं वहेत् । भवान् हि शक्तः । भवता खलु कन्या वोढव्या । उह्येत । भवान् खलु कन्या वहेत् । भवानेतदर्हति ॥
धातोः सम्बन्धे प्रत्ययाः ॥ ५। ४ । ४१ ॥
अयथाकालमपि साधवः ॥ विश्वदृश्वाऽस्य पुत्रो भविता । भावि कृत्यमासीत् । गोमानासीत् ॥
__ भृशाभीक्ष्ण्ये हिस्वौ यथाविधि तध्वमौ च ताष्मादि ॥ ५। ४ । ४२ ॥ ___ भृशाभीक्ष्ण्यविशिष्टे सर्वकालेऽर्थे वर्तमानाद्धातोः सर्वविभक्तिवचनविषये हिस्वौ पञ्चमीसम्बन्धिनौ भवतः, यथाविधि धातोः स म्बन्धे, यत एव धातोर्यास्मिन्नेव कारके हिस्वौ तस्यैव धातोस्तक्तारकविशिष्टस्यैव सम्बन्धेऽनुप्रयोगे सति, तथा पञ्चम्या एव तध्वमौ तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मद्यर्थे हिखौ च स्याताम् , यथाविधि धातोः सम्बन्धे ॥ . भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमवादेः ॥७॥४॥७३॥ ___द्योत्ये पदं वाक्यं वा ॥ क्रियाया अवयवक्रियाणां कात्स्न्यै भृशार्थः । पौनःपुन्यमाभीक्ष्ण्यम् । क्रियान्तराव्यवधानमविच्छेदः। लुनीहि लुनीहीत्येवायं लुनातीत्यादि । अधीष्वाधीष्वेत्येवायमधीते इत्यादि । लुनीत लुनीतेत्येवं यूयं लुनीथ । लुनीहि लुनीहीत्येवं यूयं लुनीथ । अधीध्वमधीध्वमित्येव यूयमधीध्वे । अधीष्वाधीष्वेत्येवं यूयमधीध्वे । यथाविधीति किम् ?। लुनीहि लुनीहीत्येवायं लुनाति, छिनत्ति लूयते वेति धातोः सम्बन्धे माभूत् ॥
प्रचये नवा सामान्यार्थस्य ॥ ५। ४ । ४३ ॥ धात्वर्थानां गम्ये धातोः सम्बन्धे सति धातोः परौ हिस्वौ