________________
( १४९ )
दास्यति, दाता वा स स्वर्गलोकं याति यास्यति, याता वा ॥ पञ्चम्यर्थतौ ॥ ५ । ३ । ११ ।।
वत्स्यति वर्त्तमानाडातोर्वर्तमाना वा ॥ पञ्चम्यर्थः प्रेषादिस्वस्य हेतुरुपाध्यायागमनादिः । उपाध्यायश्वेदागच्छति, आगमिष्यति, आगन्ता वा, अथ त्वं सूत्रमधीष्व ॥
सप्तमी चोर्ध्वमौहूर्त्तिके ॥ ५ । ३ । १२ ॥
पञ्चम्यर्थहेतौ वत्स्र्यत्यर्थे वर्त्तमानाडातोर्वर्त्तमाना वा ॥ ऊर्ध्वं मुहूर्त्ताद्भव और्ध्वमौहूर्तिकः । ऊर्ध्वं मुहूर्त्तादुपाध्यायश्वेदागच्छेत् । आगच्छति, आगन्ता वा, अथ त्वं तर्कमधीष्व ॥
क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती ॥ ५ । ३ । १३ ।।
उपपदे वर्त्स्यदर्थाद्धातोः ॥ यस्माडातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्याः सा क्रियार्थी । कर्तुम्, कारकः, करिव्यामीति वा याति । क्रियायामिति किम् ? मिक्षिष्ये इत्यस्य जटाः । क्रियार्थायामिति किम् ? । धावतस्ते पतिष्यति वासः ॥
आख्यातप्रकरणम्.
सत्सामीप्ये सद्वा ॥ ५ । ४ । १ ॥
भूते भविष्यति चार्थे वर्त्तमानाडातोः प्रत्ययाः ॥ कदा चैत्रागतोऽसि । अयमागच्छामि । आगच्छन्तमेव मां विद्धि । पक्षे, अयमागमम् । एषोऽस्म्यागतः । कदा चैत्र गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विद्धि । पक्षे, एष गमिष्यामि, गन्तास्मि, गमिष्यतमेव मां विद्धि ॥
भूतवच्चाशंस्ये वा ॥ ५॥ ४॥२॥
धातोः सद्वत् प्रत्ययाः ॥ अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा तद्विषय आशंस्यः । उपाध्यायश्वेदागमत्, एते तर्कमध्यगी