________________
( १५० )
श्रीलघुहेमप्रभाव्याकरणम्.
ष्महि । उपाध्यायश्वेदागच्छति, एते तर्कमधीमहे । पक्षे, उपाध्यायश्चेदागमिष्यत्यागन्ता वा एते तर्कमध्येष्यामहे, अध्येतास्महे वा । आशंस्य इति किम् ? उपाध्याय आगमिष्यति, तर्कमध्येष्यते मैत्रः ॥ क्षिप्राशंसार्थयोभविष्यन्तीसप्तम्यौ || ५ | ४ | ३ |
उपपदयोराशंस्यार्थाद्धातोर्यथासङ्ख्यम् ॥ उपाध्यायश्वेदागच्छति, आगमत् आगमिष्यति, आगन्ता वा, क्षिप्रमाशु एते सिद्धान्तमध्येष्यामहे । उपाध्यायश्वेदागच्छति, आगमत् आगमिष्यति, आगन्ता वा, आशंसे संभावये युक्तोऽधीयीय ॥ सम्भावने सिद्धवत् ॥ ५ । ४ । ४॥
"
असिद्धेऽपि वस्तुनि प्रत्ययाः ॥ हेतोः शक्तिश्रद्धानं सम्भावनम् । समये चेत्प्रयत्नोऽभूदुदभूवन् विभूतयः ॥ नानद्यतनः प्रबन्धासत्त्योः ।। ५ । ४ । ५ ॥
गम्ययोर्धातोः प्रत्ययः ॥ यावज्जीवं भृशमन्नमदात्, दास्यति वा । येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्त्तिष्ट । येयं पौर्णमास्यागामिन्येतस्यां जिनमहः प्रवर्त्तिष्यते ॥
1
rooraat देशस्यार्वाग्भागे ॥ ५ । ४ । ६॥
•
देशस्य asafterद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य एष्यन्नर्थस्तद्गृत्तेर्धातोरनयतनविहितः प्रत्ययो न स्यात् ॥ योऽयमध्वा गन्तव्य आ शत्रुञ्जयात्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे । एष्यतीति किम् ? | योऽयमध्वा अतिक्रान्त आ शत्रुञ्जयात्तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यैमहि । अवधाविति किम् ? । योऽयमध्वा निरवधिको गन्तव्यस्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । अवग्भाग इति किम् ? | योऽयमध्वा गन्तव्य आ शत्रुञ्जयात्तस्य यत्परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे ॥