________________
-
-
- a
-
~
~
~
-
~
. आख्यातप्रकरणम्.
(१४७) किल वासुदेवः ॥
अयदि स्मृत्यर्थे भविष्यन्ती ॥ ५। २ । ९॥
धातावुपपदे भूतानद्यतनार्थवृत्तेर्धातोः ॥ स्मरसि साधो स्वर्गे स्थास्यामः। अयदीति किम् ?। अभिजानासि मित्र यत्कलिङ्गाष्वसाम॥
वाऽऽकाक्षायाम् ॥ ५। २।१०॥ स्मृत्यर्थे धातावुपपदे प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनार्थाद्धातोभविष्यन्ती वा स्यात् ॥ स्मरसि मित्र कश्मीरेषु घत्स्यामोऽवसाम वा, तत्रौदनं भोक्ष्यामहे, अभुमिहि वा ॥
कृतास्मरणातिनिहवे परोक्षा ॥ ५।२।११॥ . - गम्ये भूतानद्यतनार्थाद्धातोः ॥ सुप्तोऽहं किल विललाप । कलिङ्गेषु ब्राह्मणो हतस्त्वया ? नाहं कलिङ्गान् जगाम ॥ हशश्वद्युगान्तःप्रच्छये ह्यस्तनी च ॥५।२।१३ ॥
हे शश्वति च प्रयुक्ते पञ्चवर्षमध्यप्रच्च्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाडातो_स्तनीपरोक्षे॥ इतिहाकरोत् । इतिह चकार । शश्वदकरोत् । शश्वञ्चकार । किमगच्छस्त्वं मथुराम् । किं जगन्य त्वं मथुराम् ॥
अविवक्षिते ॥ ५। २ । १४ ॥ भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाडातोयस्तनी ॥ अहन् कंसं किल वासुदेवः ॥
वाऽद्यतनी पुरादौ ॥ ५। २ । १५ ॥ भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाखातोरुपपदे ॥ अवात्सुरिह पुरा छत्राः । पक्षे अवसन् । अषुर्वा । तदाऽभापिष्ट राघवः । पक्षे, अभाषत । बभाषे वा ॥ .
स्मे च वर्तमाना ॥ ५।२। १६ ॥