________________
(१४४)
आख्यातप्रकरणम्.
न्तात्तु प्रयोज्ये । मासमास्यते मैत्रः ॥
... ॥ इति भावकर्मप्रक्रिया ।।
सौकर्यादविवक्षिते कर्तृव्यापारे कारकान्तराण्यपि कर्तृसंज्ञानि भवन्ति ॥ साध्वसिश्छिनत्ति । स्थाली पचति । कर्मणः कर्तृत्वविवक्षायान्तु प्राक्सकर्मका अपि प्रायेणाकर्मकाः, तेभ्यो भावे कर्तरि च प्रत्ययः । भिद्यते कुशूलेन । कर्तरि तु ॥ एकधातौ कमक्रिययैकाकर्मक्रिये ॥३।४ । ८६ ॥ ____एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्भत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकर्तृरूपे धातोर्बिक्यात्मनेपदानि स्युः॥ क्रियते, अकारि, करिष्यते वा कटः स्वयमेव। एवं भिद्यते कुशूलः स्वयमेव । एकधाताविति किम् ?। पचत्योदनश्चैत्रः । सिध्यत्योदनः स्वयमेव । कर्मक्रियेति किम् ?। साध्वसिश्छिनत्ति । एकक्रिय इति किम् ? । स्रवत्युदकं कुण्डिका । स्रवत्युदकं कुण्डिकायाः। अकर्मक्रिय इति किम् ?। भिद्यमानः कुशूलः पात्राणि भिनत्ति ॥ सृजः श्राद्धे जिक्यात्मने तथा ॥ ३।४ । ८४ ॥ ,
कर्तरि यथा पूर्व विहितानि॥ सृज्यते, असजि,स्रक्ष्यते वा मालां धार्मिकः । श्राद्ध इति किम् ? । व्यत्यसृष्ट माले मिथुनम् ।।
तपेस्तपःकर्मकात् ॥ ३।४। ८५॥ कर्तरि जिक्यात्मनेपदानि तथा ॥ तप्यते, तेपे वा तपः साधुः । बिच् तु न । अतप्त । तप इति किम् ? । उत्तपति स्वर्ण स्वर्णकारः। कर्मेति किम् ?। तपः साधु तपति ॥
पचिदुहेः ॥ ३।४ । ८७ ॥ एकघातौ कर्मस्थक्रियया पूर्वदृष्टया अकर्मिकया सकर्मिकया वा एकक्रिये कर्तरि कर्मकर्तृरूपे बिक्यात्मनेपदानि स्युः ॥ पच्यते, अ