SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (१४२) श्रीलघुहेमप्रभाब्याकरणम्. अन्वभावि । भाव्यते । भावयाञ्चक्रे । भावयांबभूवे । भावयामाहे। भाविता। भावयिता । बुभूष्यते । बुभूष्येत। बुभूषांचक्रे । बुभूषिता। षोभूय्यते । यङ्लुबन्तात्तु, बोभूयते । अबोभावि । बोभवांचक्रे । बोभाविता २ । स्तूयते । अस्तावि । अर्यते । स्मर्यते । आरिता २। स्मारिता २। संस्क्रियते । दीयते । धीयते । स्थीयते ॥ . आत ऐः कृऔ॥ ४ । ३ । ५३ ॥ धातोणिति ।। अदायि । अदायिषाताम् २। कृदिति किम् । ददौ । ददे । दायिषीष्ट २ । ग्लायते । जग्ले । शय्यते । अशायि । हन्यते। अघानि। अवधि। अघानिषाताम् । अवधिषाताम् । अहसाताम् । घानिषीष्ट । वधिषीष्ट । गृह्यते । अग्राहि । अग्राहिषाताम् । । अग्रहीषाताम् । जगृहे। दृश्यते । अदर्शि। अदर्शिषाताम् । अदृक्षाताम् । गीर्यते। ध्वमि चतुरधिकं शतम् । तथाहि, बिटि अगारिध्वम् । इटि वा दीर्घः। अगरीध्वम् । अगरिध्वम् । त्रयाणां लत्वं ढत्वं द्वित्वत्रयश्वेति पञ्च वैकल्पिकानि । इत्थं षण्णवतिः । इडभावे अगीढ्वम् । ढवमानां द्वित्वविकल्पे अष्टौ । उक्तषण्णवत्या सह संकलने उक्ता सङ्ख्येति। "इड्दीर्घश्च निट लत्वं ढत्वं द्वित्वत्रयं तथा । इत्यष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥ १॥" एवं सलोपाभावपक्षेऽपि सरकारवर्जानि पूर्ववद्रूपाणि । नलोपः। स्रस्यते । उदित्वानलोपो न । नन्द्यते । यत् । इज्यते ॥ तनः क्ये ॥ ४ । २ । ६३ ॥ आवा॥ तायते । तन्यते । क्य इति किम् ?। तन्तन्यते । जायते।जन्यते॥ तपः कत्रनुतापे च ॥३।४ । ९१ ॥ कर्मकर्तरि अिच् न ॥ अतप्त तपांसि साधुः। अन्वतप्त चैत्रेण। अन्ववातप्त पापः स्वकर्मणा। कर्चनुतापे चेति किम् ?। अतापि पृथिवी
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy