________________
आख्यातप्रकरणम्.
( १४१ )
कर्त्तरि परस्मैपदम् || भार्यामुपरमति उपरमते वा । अणिगि प्राणिकर्तृकानाप्याण्णिगः ॥ ३ । ३ । १०७ ॥
धातोः कर्त्तरि परस्मैपदम् || आसयति चैत्रम् | अणिगीति किम् ? | स्वयमेवारोहयमाणं गजं प्रयुङ्क्ते आरोहयते । अभिगीति कारः किम् ? | चेतयमानं प्रयुङ्क्ते चेतयति । प्राणिकर्तृकादिति किम् ? | शोषयते व्रीहीनातपः । अनाप्यादिति किम् ? । कटं कारयते ।। चल्याहार्थेबुधयुधप्रद्रु खुनशजनः ॥ ३ । ३ । १०८ ॥
णिगन्तात्कर्त्तरि परस्मैपदम् ॥ चलयति । कम्पयति । भोजयति । आशयति चैत्रपन्नम् । सूत्रमध्यापयति शिष्यम् । बोधयति पद्मं रविः । योधयति काष्ठानि । प्रावयति राज्यम् । द्रावयत्ययः । स्रावयति तैलम् । नाशयति पापम् । जनयति पुण्यम् ॥ ॥ इति परस्मैपदप्रक्रिया ॥
अभूयत ||
अथ भावकर्मणोर्विभक्तयः । तत्साप्यानाप्यादित्यात्मनेपदम् । क्यः शिति ॥ ३ । ४ । ७० ॥ सर्वस्माद्धातोर्भावकर्मविहिते । त्वया मया अन्यैव भूयते ।
भावकर्मणोः ॥ ३ । ४ । ६८ ॥ धातोर्विहितेऽद्यतन्यास्ते विच तलुक् च ॥ अभावि ॥ स्वग्रहदृशहन्भ्यः स्यसिजाशीःस्वस्तन्यां ञिडूवा । ३ । ४ । ६९ ॥
विहितायां भावकर्मजायाम् || अभाविषाताम् । अभविषाताम् । भाविषीष्ट २ । भाविता २ । भाविष्यते २ । अभाविष्यत २ । अनुभूयते आनन्दश्चैत्रेण । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये ।