SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (१४०) श्रीलघुहेमप्रभाच्याकरणम्. वदोऽपात् ॥३।३। ९७ ॥ फलवति कर्तर्यात्मनेपदम् ॥ एकान्तमपवदते । फलबतीत्येव । अपवदति परं स्वभावात् ॥ समुदाङो यमेरग्रन्थे ॥३।३।९८॥ फलबति कर्तर्यात्मनेपदम्॥ संयच्छते ब्रीहीन्। उद्यच्छते भारम् । आयच्छते भारम् । अग्रन्थइति किम् ? चिकित्सामुद्यच्छति । फलवतीत्येव । संयच्छति ॥ . पदान्तरगम्ये वा ॥३।३। ९९ ॥ प्रक्रान्तसूत्रपश्चके यदात्मनेपदमुक्तं तत्फलवकर्तरि ॥ स्वं शत्रु:परिमोहयते, परिमोहयति वा । स्वं यज्ञं बजते, यजति वा । स्वान् बीहीन् संयच्छते, संयच्छति वा ॥ ॥ इत्यात्मनेपदप्रक्रिया ॥ परानोः कृगः ॥ ३।३।१०१ ॥ कर्तर्यात्मनेपदम् ॥ पराकरोति । अनुकरोति ॥ . प्रत्यभ्यतेः क्षिपः । ३।३ । १०२ ॥ कर्तरि परस्मैपदम् ॥ प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति ॥ . प्रादहः ॥ ३।३ । १०३॥ कर्तरि परस्मैपदम् ॥ प्रवहति ॥ परेमषश्च । ३।३ । १०४ ॥ वहेः कर्तरि परस्मैपदम् ॥ परिमृष्यति । परिवहति ॥ व्यापरे रमः॥३।३।१०५॥ कर्तरि परस्मैपदम् ।। विरमति। आरमति। परिरमति ॥ वोपात् ॥ ३।३।१०६ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy