________________
( १३८ )
च्छति रज्जुम् ॥
यमः सूचने ॥ ४ । ३ । ३९ ॥ आत्मनेपदविषयः सिच् किछत् । उदायत । सूचन इति किम् ? आयस्त रज्जुम् || आवधिष्ट ।
श्रीलघुहेमप्रभाव्याकरणम्.
हनः सिच् ॥ ४ ३ । ३८ ॥
आत्मनेपदविषयः किद्वत् ॥ आहत ॥
1
व्युदस्तपः ॥ ३ । ३ । ८७ ॥ कर्मण्यसति स्वेऽङ्गे च कर्मणि कर्त्तर्यात्मनेपदम् ॥ वितपते उत्तपते रविः । वितपते उत्तपते पाणिम् ॥ अणिकर्मणिक्कर्तृकाण्णिगोऽस्मृतौ ॥ ३ । ३ । ८८ ॥ अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्त्ता यस्य तस्मा ण्णिगन्तादस्मृत्यर्थात्कर्त्तर्यात्मनेपदम् ॥ आरोहयते हस्ती हस्तिपकान् । अणिगिति किम् ? आरोहयति हस्तिपकान् महामात्रः । आरोहयन्ति महामात्रेण हस्तिपकाः । गिल्किम् ? गणयते गणो गोपालकम् । कर्मेति किम् ? दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? लुनाति केदारं चैत्रः । लूयते केदारः स्वयमेव तं प्रयुङ्क्ते लावयति केदारं चैत्रः । कर्त्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । तानारोहयति महामात्रः । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । तानारोहयते हस्तीत्य णिगि माभूत् । अस्मृताविति किम् ? स्मरयति वनगुल्मः कोफिलम् ॥
1
प्रलम्भे गृधिवञ्चः ॥ ३ । ३ । ८९ ॥
णिगन्तात्पलम्भेऽर्थे कर्त्तर्यात्मनेपदम् ॥ बहुं गर्जयते, वञ्चयते वा । प्रलम्भ इति किम् ? श्वानं गर्द्धयति ॥ लीलिनोऽर्चाभिभवे चाच्चाकर्त्तर्यपि ॥ ३ । ३ । ९० ॥