________________
आख्यातमकरणम्.
( १३७ )
ज्ञः ॥ ३ । ३ । ८२ ॥ कर्मण्यसति कर्त्तर्यात्मनेपदम् ॥ सर्पिषो जानीते । कर्मण्यसती - त्येव । तैलं सर्पिषो जानाति ॥
उपात्स्थः। ३ । ३ । ८३ ॥
कर्मण्यसति कर्त्तर्यात्मनेपदम् | योगे योगे उपतिष्ठते । कर्मण्यसतीत्येव । राजानमुपतिष्ठति ॥ समो गमृच्छिप्रच्छिवित्स्वरत्यर्त्तिदृशः || ३|३|८४ ॥ कर्मण्यसति कर्त्तर्यात्मनेपदम् ॥ सङ्गच्छते ॥
गमो वा ॥ ४ । ३ । ३७ ॥
आत्मनेपद विषयौ सिजाशिषौ किद्वत् । समगत । समगंस्त । संगसीष्ट । संगसीष्ट । समृच्छिष्यते । सम्पृच्छते । संभृणुते । नित्यपरस्मैपदिभिः साहचर्या ज्ञानार्थस्यैव विदेर्ग्रहणम् । संवित्ते ॥
वेर्न वा ॥ ४ । २ । ११६ ॥
परस्यात्मनेपदस्थस्यान्तो रत् ।। संविद्रते । संविदते । संस्वरते । अर्त्तीति भ्वादिरदादिश्च गृह्यते । समृच्छते । समियते । समारत । समार्त्त । संपश्यते । कर्मण्यसतीत्येव । सङ्गच्छति मैत्रम् ॥
वेः कृगः शब्दे चानाशे ॥ ३ । ३ । ८५ ॥
कर्मण्यसति कर्मणि कर्त्तर्य्यात्मनेपदम् ॥ विकुर्वते सैन्धवाः । क्रोष्टा विकुरुते स्वरान् । शब्दे चेति किम् ? विकरोति मृदम् । अनाश इति किम् ? विकरोत्यध्यायम् ॥
"
आङो यमहनः स्वेऽङ्गे च । ३ । ३ । ८६ ॥ कर्मण्यसति कर्तुः कर्मणि कर्त्तर्यात्मनेपदम् || आयच्छते । आहते । आयच्छते आहते वा पादम् । स्वेऽङ्गे चेति किम् ? आय