________________
(१३२) श्रीलघुहेमप्रभाव्याकरणम्.
कर्तर्यात्मनेपदम् ॥ गतं सादृश्यम् । पैतृकममा अनुहरन्ते । पितुरनुहरन्ते। गतेति किम् ? पितुर्हरति । ताच्छील्य इति किम् ? नटो राममनुहरति ॥
पूजाचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः ॥ ३।३। ३९॥ ____ गम्ये कर्त्तर्यात्मनेपदम् ॥ नयते विद्वान् स्याद्वादे । माणवकमुपनयते । कर्मकरानुपनयते । शिशुमुदानयते । नयते तत्त्वार्थे । मद्राः कारं विनयन्ते । शतं विनयते। पूजेत्यादि किम् ? अजां नयति ग्रामम् ।।
___ कर्तृस्थामूर्ताप्यात् ॥ ३।३। ४० ॥ ___ नियः कर्तर्यात्मनेपदम् ॥ श्रमं विनयते । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्युं विनयति। अमूर्तेति किम् ? गडं विनयति।आप्यति किम् ? बुद्धया विनयति ॥
क्रमोऽनुपसर्गात् ॥ ३।३। ४७ ॥ कतर्यात्मनेपदं वा ॥ क्रमते । क्रामति । अनुपसर्गादिति किम् ! अनुक्रामति ॥
वृत्तिसगतायने ॥३।३। ४८॥ क्रमेः कर्तर्यात्मनेपदम् ॥ वृत्तिरप्रतिबन्धः । सर्ग उत्साहः । तायनं स्फीतता । शास्त्रेऽस्य क्रमते बुद्धिः । सूत्राय क्रमते । क्रमन्तेऽस्मिन् योगाः ॥
परोपात् ॥ ३।३। ४९ ॥ आभ्यामेव क्रमवृत्त्याद्यर्थात् कर्तर्यात्मनेपदम् ॥ पराक्रमते । उपक्रमते । परोपादिति किम् ? अनुक्रामति । वृत्त्यादावित्येव । पराक्रामति ॥
वेः स्वार्थे ॥३।३। ५०॥ क्रमेः कर्त्तात्मनेपदम् ॥ साधु विक्रमते गजः । स्वार्थ इति