________________
आख्यातप्रकरणम्.
( १३१ )
बहुवि जयति वनम् ॥
समः क्ष्णोः ॥ ३ । ३ । २९ ॥ कर्त्तर्य्यात्मनेपदम् ॥ संक्ष्णुते शस्त्रम् । समइति किम् ? क्ष्णौति । उपसर्गादित्येव । आयसं क्ष्णौति ॥ अपाच्चतुष्पात्पक्षिशुनिहृष्टान्नाश्रयार्थे ॥ ४४॥९५॥ किरतेः कर्त्तरि सडादिः ॥
अपस्किरः ॥ ३ । ३ । ३० ॥
कर्त्तर्यात्मनेपदम् ॥ अपस्किरते वृषभो हृष्टः । कुक्कुटो भक्ष्यार्थी । आश्रयार्थी वा वा । सस्सट्कनिर्देशः किम् ? अपकिरति । अपेति किम् । उपस्किरति ॥
उदश्चरः साप्यात् ॥ ३ । ३ । ३१ ॥ कर्त्तर्य्यात्मनेपदम् ॥ मार्गमुच्चरते । साप्यादिति किम् ? धूम
उच्चरति ॥
समस्तृतीयया ॥ ३ । ३ । ३२ ॥
चरेर्योगे कर्त्तर्य्यात्मनेपदम् ॥ अश्वेन सञ्चरते । तृतीययेति किम् ? उभौ लोकौ सञ्चरसि ॥
क्रीडोsकूजने ॥ ३ । ३ । ३३ ॥
सम्पूर्वात्कर्त्तर्य्यात्मनेपदम् ॥ सङ्क्रीडते । सम इत्येव । क्रीडति । अकूजन इति किम् ? सङ्क्रीडन्त्यनांसि ||
अन्वाङ्परेः || ३ | ३ | ३४ ॥
1
क्रीडेः कर्त्तर्यात्मनेपदम् || अनुक्रीडते । आक्रीडते । परिक्रीडते ॥ शप उपलम्भने || ३ | ३ | ३५ ॥
कर्त्तयत्मनेपदम् ॥ उपलम्भनं प्रकाशनं शपथो वा । मैत्राय शपते । उपलम्भन इति किम् ? मैत्रं शपति ॥
गो गतताच्छील्ये ॥ ३ । ३ । ३८ ॥