________________
~
~
~
~
~
~
~
~
~
~
~
~
~
~~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
-
~
~
-
~
(१३०) श्रीलघुहेमप्रभाव्याकरणम्,
कर्त्तर्यात्मनेपदम् ॥ व्यतिलुनते। व्यतिहरन्ते ।व्यतिवहन्ते भारम्। क्रियेति किम् ? द्रव्यव्यतिहारे मा भूत् । चैत्रस्य धान्यं व्यतिलुनन्ति । गत्यादिवर्जनं किम् ? व्यतिसर्पन्ति । व्यतिहिंसन्ति । व्यति जल्पन्ति । व्यतिहसन्ति । अनन्योन्यार्थ इति किम् ? परस्परस्य व्यतिलुनन्ति। कर्तरीत्येव । तेन भावकर्मणोः पूर्वेणैव गत्यादिभ्योऽपि स्यात् । व्यतिगम्यन्ते ग्रामाः । असक् भुवि । व्यतिस्ते । व्यतिपाते। व्यतिषते । व्यतिसे । व्यतिध्वे । व्यतिहे। व्यतिषीत। व्यत्यसै । व्यत्यास्त । व्यतिराते ३ । व्यतिभाते ३ । व्यतिबभे ॥
निविशः ॥ ३।३ । २४ ॥ कर्तर्यात्मनेपदम् ॥ निविशते ॥
उपसर्गादस्योहो वा ॥ ३ । ३ । २५ ॥ कर्त्तर्यात्मनेपदम् ॥ विपर्यस्यते । विपर्यस्यति । समूहते । समूहति ॥
उपसर्गाहो ह्रस्वः ॥ ४।३। १०६ ॥ किति यादौ॥ समुह्यते। समुह्यात । उपसर्गादिति किम् ? ऊह्यते । यीत्येव । समूहितम् । ऊ ऊह इति प्रश्लेषात् । आ ऊह्यते भोगते । समोह्यते ॥
उत्स्वरायुजेरयज्ञतत्पात्रे ॥ ३ । ३ । २६ ॥
उपसर्गात् कर्तर्यात्मनेपदम् ॥ उद्युक्ते। उपयुङ्क्ते। उत्स्वरादिति किम् ? संयुनक्ति । अयज्ञतत्पात्र इति किम् ?। इन्द्रं यसपात्राणि प्रयुनक्ति ॥
परिव्यवाक्रियः ॥ ३ । ३ । २७ ॥ उपसर्गात् कर्तर्यात्मनेपदम् ॥ परिक्रीणीते । विक्रीणीते । अवक्रीणीते। उपसर्गादित्येव । उपरि क्रीणाति॥
परावेर्जः ॥३।३।२८॥ कर्तर्यात्मनेपदम् ॥ पराजयते । विजयते । उपसर्गादित्येव ।