________________
आख्यातप्रकरणम्.
( १२९)
न्यत्र ॥ अरर आराकर्मणि । ३७ || सपर पूजायाम् ॥ ३८ ॥ समर
युद्धे । ३९ ॥
॥ इति कण्ड्वादयः ॥
नानो द्वितीयाद्यथेष्टम् ॥ ४ । १ । ७ ॥ स्वरादेर्नामधातोर्द्वित्वभाजो द्वितीयादारभ्यैकस्वरांशो यथेष्टं द्विः । अशिश्वीयिषति । अश्वीयियिषति । अश्वीयिषिषति ॥
अन्यस्य ॥ ४ । १ । ८ ॥
स्वरादेरन्यस्य नामधातोर्द्वित्त्वभाज एकस्वरांशो यथेष्टं प्रथमादिर्द्विः ॥ पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । पुत्रीयषिषति ॥
कण्ड्वादेस्तृतीयः ॥ ४ । १ । ९॥
कण्ड्वादविभाज एकस्वरोंऽशस्तृतीय एव द्विः ।। कण्डूयियिपति | असूयियिषति ॥
पुनरेकेषाम् || ४ | १ । १० ॥
मते द्वित्वे कृते द्विश्वम् ॥ सुसोपुपिषते । एकेषामिति किम् ? सोबुपिषते । सन्नन्ताणिगि बुभूषयति । यङन्ताणिगि । बोभूययति । यङ्लुबन्ताण्णिाग, बोभावयति । णिगन्ताण्णिगि । भावयति । ण्यन्तात्सनि विभावयिषति । यङ् सन् ण्यन्तात् सन् । बोभूयिषयिषति । यङ् णिग् सन्नन्ताण्णिग् बोभूयविषयतीत्यादि ॥
॥ इति प्रत्ययमाला ॥
इङितः कर्त्तरि । एधते । आस्ते । शेते ॥
1
क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसो ह्रवहश्चा
नन्योन्यार्थे || ३ | ३ । २३ ॥