SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. किम् ? गजेन विक्रामति ॥ प्रोपादारम्भे ॥ ३ । ३ । ५१ ॥ क्रमेः कर्त्तर्यात्मनेपदम् ॥ प्रक्रमते उपक्रमते भोक्तुम् । आरम्भ इति किम् ? प्रक्रामति यानीत्यर्थः ॥ आङो ज्योति ॥ ३ । ३ । ५२ ॥ क्रमेः कर्त्तर्यात्मनेपदम् ॥ आक्रमते चन्द्रः सूर्यो वा । ज्योतिरुद्गम इति किम् । आक्रामति बटुः कुतुपम् । धूम आक्रामति ॥ दागोऽस्वास्यप्रसारविकाशे ॥ ३ । ३ । ५३ ॥ आङः कर्त्तर्यात्मनेपदम् ॥ विद्यामादत्ते । स्वास्यादिवर्जनं किम् ? उष्ट्रो मुखं व्याददाति । कूलं व्याददाति ॥ नुप्रच्छः ॥ ३ । ३ । ५४ ॥ आङः कर्त्तर्यात्मनेपदम् ।। भानुते श्रृगालः । आपृच्छते गुरून् ॥ गमेः क्षान्तौ ॥ ३ । ३ । ५५ ॥ आङः कर्त्तर्यात्मनेपदम् ।। आगमयते गुरुम् । कश्चित्कालं प्रतीक्षते । क्षान्ताविति किम् ? आगमयति विद्याम् ॥ ह्वः स्पर्धे ॥ ३ । ३ । ५६ ॥ आङ गम्ये कर्त्तर्य्यात्मनेपदम् || मल्लो मल्लमाहयते । स्पर्द्ध इति किम् ? | गामाहयति ॥ सन्निवेः ॥ ३ । ३ । ५७ ॥ हयतेः कर्त्तर्यात्मनेपदम् ॥ संहयते । निह्वयते । विद्दयते ॥ (१३३) उपात् । ३ । ३ । ५८ ॥ हयतेः कर्त्तर्य्यात्मनेपदम् ॥ उपहयते ॥ यमः स्वीकारे ॥ ३ । ३ । ५९ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy