________________
आख्यातमकरणम्..
(१२७)
विपाशयति । शूरो भवति शूरयति । वीर उत्सहते वीरयति । पुत्रं सूते पुत्रयति । स्रग्विणमाचष्टे स्रजयति । पयस्विनी पयसयति । पययतीत्यप्येके । त्वग्वन्तं त्वचयति । अल्पं युवानं वा कनयति । पक्षे अल्पयति । यवयति। स्थवयति। दवयति । इसयति। क्षेपयति। क्षोदयति । श्रयति । ज्ययति । साधयति । नेदयति । प्रापयति । स्थापयति । स्फापयति । वरयति । गरयति । वंहयति । अपयति । द्राधयति । वर्षयति । वृन्दयति । प्रथयति । म्रदयति । भ्रसयति । ऋशयति । द्रढयति । परिवढयति । भूययति । ऊढिमाचष्टे ऊढयति।
औजिढत् । केचिनु औडिहत् इतीच्छन्ति । ऊढमाख्यत् औजदत् । स्वयति । त्वां मां वाऽऽचष्टे त्वदयति मदयति । त्वादयति मादयती न्यन्ये । त्वापयति मापयतित्यपरे । युवामावां वा आचष्टे युष्मयति अस्मयति । विद्वांसं विद्वयति। विदावयतीत्यन्ये। विदयतीत्यपरे। श्वानं श्वानयति। शावयतीत्यन्ये । शुनयतीत्यपरे। उदश्चमाचष्टे उदयति । उदीचयतीत्यन्ये । प्रत्यश्चं प्रत्ययति । दध्ययं दध्ययति । हलिं कलिं वा गृह्णाति हलयति कलयति। अजहलत्। सुवमाचष्टे भावयति । अबीभवत् । ध्रुवं भावयति अबुभ्रवत् । श्रियम् अशिश्रयत्। गाम् अजूगवत् । रायम् अरीरयत् । नावम् अनूभवत् । फरिमाचष्टे, करयति । दरदं दारदयति । एनीम् एतयति। ऐततत्॥
व्रताद्भुजितन्निवृत्त्योः । ३।४ । ४३॥
कृगादिष्वर्थेषु णिज्बहुलम् ॥ व्रतं शास्त्रविहितो नियमः। पयो व्रतयति । सावद्यान्नं व्रतयति ॥
सत्यार्थवेदस्याः ॥३।४ । ४४ ॥ णिच्सनियोगे॥ सत्यापयति । अर्थापयति । वेदापयति ॥
श्वेताश्वाश्वतरगालोडिताह्वरकस्याश्वतरेतकलुक् ॥३।४।४५॥