________________
(१२६)
श्रीलघुहेमप्रभाव्याकरणम्.
Vvvvvvvvvvvvwwwwwwwwwww
. तपसः क्यन् ॥ ३।४ । ३६ ॥ कर्मणः कृतौ वा ॥ तपस्यति ॥
नमोवरिवश्चित्रकोऽर्चासेवाश्चर्ये ॥३।४।३७॥ कर्मणः क्यन् वा ॥ नमस्यति देवान् । वरिवस्यति । चित्रीयते ॥
अङ्गानिरसने णि ॥३। ४ । ३८ ॥
कर्मणो वा ।। हस्तयते । पादयते । कर्मण इति किम् ? हस्तेन निरस्यति । निरसन इति किम् ? हस्तं करोति हस्तयति॥
पुच्छादुत्परिव्यसने ॥ ३ । ४ । ३९ ॥ . पुच्छात्कर्मण उदसने पर्यसने व्यसनेऽसने चार्थे णिङ्वा ।। उत्पुच्छयते । परिपुच्छयते । विपुच्छयते । पुच्छयते ॥
भाण्डात्समाचितौ ॥३। ४ । ४० ॥ कर्मणो णिङ्वा ॥ सम्भाण्डयते । परिभाण्डयते ॥
चीवरात्परिधानार्जने ॥ ३ । ४ । ४१ ॥ कर्मणो णिङ्वा ॥ परिचीवरयते । संचीवरयते ॥ णिज् बहुलं नाम्नः कृगादिषु ॥३।४। ४२ ॥
बहुलग्रहणं प्रयोगानुसरणार्थम् ॥ तेन यस्मानान्नो यद्विभक्त्यन्तायस्मिन् धात्वर्थे दृश्यते तस्मात्तद्विभक्त्यन्तात्तद्धात्वर्थे एव भवतीति नियमो लभ्यते । मुण्डङ्करोति मुण्डयतिच्छात्रम् । पटुमाचष्टे पटयति। वृक्ष रोपयति वृक्षयति । कृतं गृह्णाति कृतयति । रूपं निध्यायति निरूपयति । लोमान्यनुमार्टि अनुलोमयति । हस्तिनाऽतिक्रामति अतिहस्तयति । वर्मणा सन्नाति संवर्मयति । वीणयोपगायति उपवीणयति। सेनयाभियाति अभिषेणयति। वास्याच्छिनत्ति वासयति । वाससोन्मोचयति उदासयति । श्लोकैरुपस्तौति उपश्लोकयति। हस्तेनापक्षिपति। अपहस्तयति । छन्दसोपचरति उपमन्त्रयते वा उपच्छन्दयति । पाशेन संयच्छति संपाशयति । पाशं पाशाद्वा विमोचयति