________________
श्राख्यातमकरणम्.
(१२५)
मुमनायते। स्वमनायत । अप्रत्यय इत्युक्तेः औत्सुकायत। वेहायते । कर्तुरित्येव । अभृशं भृशं करोति । व्यर्थ इति किम् ? भृशो भवति ॥
डाउलोहितादिभ्यः षित् ॥ ३।४ । ३०॥ कर्तृभ्यश्चव्यर्थे क्यङ् ॥
क्यो न वा ॥३।३। ४३॥ धातोः कर्त्तर्यात्मनेपदम् ॥ पटपटायति । पटपटायते । लोहितायति। लोहितायते। कर्तुरित्येव। अपटत् पटत् करोति। व्यर्थ इत्येव। लोहितो भवति । बहुवचनमाकृतिगणार्थम् । धूमादीनां स्वतत्रार्थवृत्तीनां प्रकृतिविकारभावाप्रतीतेश्व्यर्थो नास्तीति तद्वद्वात्तिभ्यः प्रत्ययः । अधूमवान् धूमवान् भवति धूमायति । धूमायते ॥ कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे ॥३॥४॥३१॥
एभ्यश्चतुर्थ्यन्तेभ्यः पापवृत्तिभ्यः क्रमणेऽर्थे क्यङ् ॥ कष्टायो । कक्षायते। कृष्ड्रायते। सत्रायते । गहनायते । चतुर्थीनिर्देशः किम् ? रिपुः कष्टं कामति । पाप इति किम् ? कष्टाय तपसे क्रामति ॥
रोमन्थाद् व्याप्यादुच्चर्वणे ॥३।४ । ३२ ॥
क्यङ् वा ॥ रोमन्थायते गौः । उच्चर्वण इति किम् ? कीटो रोमन्थं वर्त्तयति ॥
फेनोमबाष्पधूमादुइमने ॥३।४ । ३३॥ . क्यङ् वा ॥ फेनायते । ऊष्मायते । वाष्पायते । धूमायते ॥
सुखादेरनुभवे । ३।४ । ३४ ॥ कर्मणः क्यङ् वा ॥ सुखायते । दुःखायते ॥
शब्दादेः कृतौ वा ॥३।४।३५॥ कर्मणः क्यङ् ॥ शब्दायते । वैरायते । फलहायते । पले णिम् । शरदयात । वैश्यति ॥