________________
( १२२ )
श्रीलघुहेमप्रभाव्याकरणम्.
अनुनासिके चेत्यूटि । मामोति । मामव्यीति । तेतेवीति । तेतयोति । देदिवीति । देयोति । सेपिवीति । सेध्योति । अन्ये तु ङ्कित्येवोटमिच्छन्तोदेदेति सेपेतात्येवमिच्छन्ति । केचित्तु यकारवकारान्तानामूड्भाविनां यङ्लुपोऽभावमिच्छन्ति ।
राल्लुक् ॥ ४ । १ । ११० ॥
परयोवोरनुनासिकादौ कौ घुडादौ च प्रत्यये ॥ मोमोति । मोमूर्त्तः । मोमूच्र्च्छति । जोहोर्त्ति । तोतूर्वीति । तोतोर्त्ति । तोतूर्वति तोथोर्त्ति । दोदोर्त्ति । दोघोर्त्ति । वेवेति । वेवयीति । अत्र यङ्लुप्यपि तद्विषयोऽस्त्येव यथाऽवात्तामित्यत्र सिचः । यङ्लुपि तद्विषया-भावेन वीभावस्याभवृतेरजेर्यङलु नास्तीति केचित् । चोकवीति । घोकोति । वेवयीति । वेवेति । सेसिमीति । सेसिन्ति । शोशवीति । शेश्वयीति | आपेपेति । चेकयीति । चेकेति ॥ ॥ इति यङ्लुबन्तप्रक्रिया ॥
द्वितीयायाः काम्यः ॥ ३ । ४ । २२ ॥
नाम्न इच्छायां वा ॥ पुत्रकाम्यति । इदंकाम्यति । यशस्काम्यति । किंकाम्यति । स्वःकाम्यति । उच्चैः काम्यति । काम्येनैव कर्मण उक्तत्वात् कर्मणि नास्य प्रयोगः । द्वितीयाया इति किम् ? इष्टः पुत्रः । भ्रातुषपुत्रमिच्छतीत्यादौ तु न, सापेक्षत्वात् । आत्मीयतायां गम्यमानायां तु भ्रातुः पुत्रकाम्यतीति भवत्येव ।।
अमाव्ययात्क्यन् च ।। ३ । ४ । २३ ॥
द्वितीयान्तान्नाम्न इच्छायां काम्यो वा ॥ क्यनि ॥ ४ । ३ । ११२ ॥