________________
( १२३ )
अवर्णान्तस्य ईः ॥ पुत्रीयति । पुत्रकाम्यति । मालीयति । अमाव्ययादिति किम् ? किमिच्छति । उच्चैरिच्छति । इदमिच्छति । स्वरिच्छति ॥
नं क्ये ॥ १ । १ । २२ ॥
नाम पदम् ॥ क्य इति क्यन्- क्यङ् क्यङ्क्षां ग्रहणम् । राजीयति । अहर्यति । गव्यति । नाव्यति । सन्निपातपरिभाषया यस्य लोपो न । गव्यिता । वाच्यति ॥
आख्यातप्रकरणम्.
क्यो वा ।। ४ । ३ । ८१ ॥
1
धातोर्व्यञ्जनात् परस्याशिति लुक् ॥ वाचिता । वाच्यिता । समिध्यति । अदस्यति । त्वद्यति । मद्यति । प्रकृत्यर्थस्यैकत्वाभावे तु युष्मद्यति । अस्मयति । गीर्यति । पूर्यति । अभ्वादित्वान्न दीर्घः, दिव्यति । गार्गीयति । कर्त्रीयति । पित्रीयति । कवीयति ॥ आधाराच्चोपमानादाचारे || ३ | ४ | २४ ॥ मन्ताव्ययवर्णान्नाम्नः क्यन् वा ॥ पुत्रीयति छात्रम् । मासादीयति कुटयाम् । न प्रादिरप्रत्ययः, प्रासादीयत् ॥ क्षुत्तृड्गर्द्धेऽशनायोदन्यधनायम् || ४ | ३ |११३|| निपात्यते || अशनायति । उदन्यति । धनायति । क्षुदादाविति किम् ? अशनीयति । उदकीयति । धनीयति दानाय ॥ वृषाश्वान् मैथुने स्सोऽन्तः ॥ ४ । ३ । ११४ ॥ क्यानि ॥ वृषस्यति गौः । अश्वस्यति वडवा । मैथुन इति किम् ? वृषीयति । अश्वीयति । स्स इति द्विसकार निर्देशः षत्वनिषेधार्थः, तेनोत्तरत्र दधिस्यति । मधुस्यति ।
असू च लौल्ये ॥ ४ । ३ । ११५ ॥