________________
(११६)
श्रीलघुहेमप्रभाव्याकरणम्.
व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ्वा ॥३॥४९॥
धातोः ॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन सम्पत्तिः फलातिरेको वा भृशत्वं, प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम्॥
आगुणावन्यादेः॥ ४।१ । ४८॥ यङन्तस्य द्वित्त्वे पूर्वस्य ॥ भृशं पुनः पुनर्वा पचतीति पापच्यते । बोभूयते । लोलूयते । अन्यादेरिति किम् ? वनीवच्यते । जञ्जप्यते । यंयम्यते । पूर्वसूत्रे व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् ॥
योऽशिति ॥ ४ । ३। ८० ॥ धातोर्व्यञ्जनान्तात् परस्य प्रत्यये लुक् ॥ अपापचिष्ट । पापचाश्चक्रे । तोष्टूयते ॥
अटयर्तिसूत्रिमूत्रिसूच्यशर्णोः ॥ ३।४ । १० ॥
भृशाभीक्ष्ण्ये यङ् ॥ अटाटयते । अरार्यते । सोसूत्र्यते । मोमूव्यते । सोसूच्यते । अशाश्यते । पोर्णोनूयते ॥ .
गत्यर्थात् कुटिले ॥३। ४ । ११॥ . व्यञ्जनादेरेकस्वराद् एवार्थे धातोर्यङ् ॥
मुरतोऽनुनासिकस्य ॥ ४।१। ५१ ॥
आत्परो योऽनुनासिकस्तदन्तस्य यडन्तस्य द्वित्त्वे पूर्वस्य मुरन्तः स्यात् ॥ चङ्गम्यते । जञ्जम्यते । बम्भण्यते । कुटिल इति किम् ? भृशं कामति । अत्र तपरत्वाद्दीर्घस्य न मोऽन्तः । तेन बाभाम्यते । ये न वा । जाजायते । जञ्जन्यते ॥